This page has not been fully proofread.

१२६
 
मोमांसान्यायप्रकाशः
 
[ कर्मनामधेय-
न तावत्र गुणविशिष्टयागविधानं संभवति, 'दधि मधु घृतं पयो धाना
उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यनेन विहितत्वाद्यागस्य विशिष्टवि
धानानुपपत्तेः । (१) प्राप्तस्य च यागस्य फलसम्बन्धे गुणसंबन्धे च विधीय-
माने वाक्यभेदः ।
Jaime
 
अथ चित्राशब्दात् चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्वस्य च स्वभावतः
प्राणिधर्मत्वात् प्रकृते दध्यादिद्रव्यके कर्मणि निवेशायोगान्नानेन वाक्येन
नामधेयत्वाङ्गो कर णमित्याशङ्कां अनूद्य परिहर्तुमारभते-न तावदित्यादिना ।
चित्रावाकये। गुणविशिष्टयाग विधानमिति । चित्रश्वस्त्रीत्वावच्छिन्नद्रव्य विशि
टस्य यागस्य विधानमित्यर्थः । ननु गुणविशिष्टयाग विधानाङ्गीकारेऽपि चित्र पढ़े
मस्वर्थलक्षणाङ्गीकारापत्त्या ततो नामधेयत्वाङ्गीकरणस्यैव युतत्वात् पूर्वोक्त विषयत्व.
मेवास्यापतितमिति कथं ततः पृथगुतिरिति चेत् - न; ये शब्दाः कचिदप्यर्थ विशेषे
न रूढाः उभयत्र तुल्यववृत्तिकाः त एव पूर्वोदाहरण विषयाः, न स्वर्थविशेषे
रूढाश्चित्रादिशब्दाः, श्रत एव सोमादिशब्दानामर्थविशेषे रूढत्वादेवागत्या मत्वर्थ-
लक्षणामप्यङ्गीकृत्य विशिष्टविधिरेवाश्रितः, अतश्च युक्तैव पृथगुक्तिः । मधु माक्षि-
कम्, धानाः भ्रष्टाः यवतण्डुलाः । तदिति दध्यादिद्रव्य सप्तकपरांमर्शि, मिश्रितद-
ध्यादिसमुदायः प्रजापतिदेवताक इत्यर्थः । विहितत्वात् यागस्यत्येकवचनं प्रयुक्त-
चतः प्रन्थकारस्यात्र न्यायसुधाकृभिमतः दध्याद्यनेकद्रव्य कैकयागपक्ष एवाभिप्रेत
इत्यवगम्यते । नवीनास्तु-"सप्तदश प्राजापत्या" नित्यादिवत् अत्राप्यनेकयागपक्ष.
मेवाङ्गीकुर्वन्ति । अत्र चैकयागपक्षनिराकरण पूर्व कमने कयागपक्षस्थिरीकरणं कौस्तुभे
चित्राधिकरणे द्रष्टव्यम् । विस्तरभयाग्नेह प्रपञ्च्यते । ननु अनुमत्यादिवाक्यैः पृथक्
पृथक स्वरूपतः प्राप्तानामपि कर्मणां "राजा राजसूयेन स्वाराज्यकामो यजेत"
इत्यनेन राजकर्तृविशिष्टत्वेन यथा फले विधानम् तद्वदैत्रापि प्राप्तस्यापि कर्मणः पुनर्गुण-
विशिष्टत्वेन फलोद्देशेन विधानमस्वित्यत -प्राप्तस्येति । वाक्यभेद इति । अयं
भावः - एकादशे हि द्रव्यदेवतादीनां उत्पत्तिविध्यन्वयित्वम् देशकाल कर्त्रादीनां च
प्रयोगान्वयित्वम् । तद्यत्रोत्पत्त्यन्वयिगुणः श्रूयते तत्र कर्मणामुत्पत्तिविधिः, यत्र च प्रयो-
गान्वयिगुणः श्रूयते तत्र प्रयोगविधिश्चाङ्गीक्रियते । अत एव च यत्र वाक्यद्वये प्रयोगा-
न्वयिगुणश्रवणं तत्र विनिगमनाविरहादुभयत्र प्रयोगविधिः, तत्राविरोधे समुच्चयः, विरोधे
विकल्प इत्यादि स्पष्टमुपपादितम् । अत एव च राज्ञः प्रयोगान्वयिगुणत्वात् युज्यते
तत्रोत्पन्नस्यापि कर्मणः पुनः प्रयोगविधिः, प्रकृते तु चित्रत्वस्य प्रयोगान्वयित्वासम्भवात्
न तद्विशिष्टप्रयोगविधिस्सम्भवतीत्युभयोविंधाने वाक्यमेदो दुष्परिहर इति ।
 
-
 
पूर्वपक्षी प्रकारान्तरेण गुणविधित्वं साषयितुमुपक्रमते- अथेति । चित्रत्व स्त्रीत्व
योरिति । प्रकृत्यंशेन चित्रत्वस्य टाबंशेन स्त्रीत्वस्य च प्रतिपत्ते रित्यर्थः । अत्र च नीला.
दिव्यक्तेरे कत्वं नित्यत्वं च, श्रयं शुक्नोऽयमपि शुक्नः इत्यादिभेदप्रतीतिस्तु विभिन्नगुणाध-
यमैदाधीनः, एवमेवातिनीलः ईषन्नीलः इत्यादिप्रतीतिरप्याश्रयमेदकृत एव । एवञ्च
nipajaglue
 
handa
 
१. 'प्राप्तस्य' नास्ति. क.