This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
१२५
 
लतायां रूढत्वेन यागना मधेयत्वानुपपत्ते रगत्या लक्षणाश्रयणात् । उद्भिच्छ-
ब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्रसिद्धः । उद्भिद्यते ऽनेनेति योगस्य तु गुण
इव यागेऽपि फलोद्भेदनकारिरायुपपत्तेः । तत्सिद्धमुद्भिच्छन्दस्य मत्वर्थल-

 
क्षणाभयाद्यागनामधेयत्वम् ॥
 
( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् ) R
'चित्रया यजेत पशुकामः' इत्यत्र चित्राशब्दस्य वाक्यभेद्भयात् कर्म-
नामधेयत्वम् । तथा
हिन
 
दस्य कर्मनामधेयत्व मेवाङ्गीक्रियतामित्याशङ्कते-न चैवमिति । लतायां रूढत्वेनेति ।
उक्तं हि भाग्यकृता-'सोमशब्दः क्षोरिएयां लतायां प्रसिद्धः' इति,
"श्यामलाऽम्ला च निष्पत्रा क्षीरिणी त्ववि मांसला
श्लेष्मला वमनी वल्लो सोमाख्या ब्रागभोजनम्॥
इति चान्यत्र । अयं भावः - प्रसिद्धस्यैव पदस्य प्रसिद्धपदसमभिव्याहारेणार्थनि
र्णयः क्रियते । न तु प्रसिद्धमपि पदं समभिव्याहारमात्रेण लाघवादिना वा स्वार्थादपकृष्यते ।
 
"पदमशातसन्दिग्धं प्रसिद्धैरपृथकश्रुति
 
निर्णीयते निरूढं तु न स्वार्थादपनीयते"क
इति न्यायात् । अतश्च दघिसोमादीनामर्थविशेषेऽत्यन्तरूढत्वेन यजिसामानाधिक-
रण्यस्यैवाभावेन नामधेयश्वाङ्गीकरणं सुदुष्करमिति गत्यन्तराभावात् लक्षणैवाश्रितेति ।
अगत्येति । नामधेयत्वाङ्गी करणरूपगतेरभावादित्यर्थः । नन्वेवं उद्भिच्छब्दस्याप्यवयव-
शक्त्या खनित्रादौ रूढत्वात् यजिसामानाधिकरण्याभावेन यागनामधेयत्वं न स्यात् इत्यत
आह-उद्भिद्यत इति । 'भिदिर् विदारणे' इत्यनेन उत्पूर्व कभिद्धातोः ऊर्ध्वविदार-
रूपार्थकत्वा वग मेऽपि घातूनामनेकार्थत्वात् "वैडूर्यभूमेर्नवमेघशब्दादुद्भिन्नया
रत्नशलाकयेव" इति प्रयोगात् उत्पादनार्थकत्वस्याप्यवगतेः येनैव रूपेण फलोत्पाद-
कस्वरूपेण गुणे वृत्तित्वं, तेनैव योगेन कर्मण्यपि प्रवृत्तिसम्भवात् दग्यादिपदवत् अर्थवि
शेषे रूढयभाव।त् श्रप्रसिद्धार्थकस्य तस्य यजिसामानाधिकरण्येन लाघवानुगृहीतेन कर्म.
नांमधेयत्वाङ्गीकरणमेव युक्तमिति भावः । यथोक्तम्
 

 
विशिष्टविधिपक्षे तु भवेन्मर्थस्खलक्षणा
 
सोमादौ गत्यभावात् सा न त्वत्र गतिसम्भवात् ॥ इति ।
एवञ्च विशिष्टविध्यङ्गीकारे मत्वर्थलक्षणारूपदोषापत्या तत्परिहारार्थमेवोद्भित्पदस्य
कर्मनामधेयत्वाङ्गीकरणमित्युपसंहरति - तत्सिद्धमिति ॥
 
(वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् )
 
FOUNDED
 
इदानीं यत्र वाक्यमेदभयात् कर्मनामस्वं तदुपपादयति-चित्रयेति । विचित्रद्रव्य-
कत्वात् चित्रासंज्ञकयेष्टया पशुरूपं फलं भावयेत् इत्ति वाक्यार्थः । ननु चित्राशब्दस्य
चित्रगुणवाचकत्वेन लोके प्रसिद्धत्वात् तादृशगुण विशिष्टकर्मान्तरमेव विधीयताम् । श्रथ
वा यत्र कर्मणि द्रव्यमपि प्राप्तं तत्र तदनुवादेन चित्रत्वरूपो गुणो विघीयताम् । प्राप्त
कर्मानुवादेन गुणमात्रविधाने वाक्यमेदोऽपि न भवतीति किमर्थं प्रवृत्तिविशेषानापादक-
नायधीस