This page has not been fully proofread.

१२४
 
मोमांसान्यायप्रकाशः
 
3
 
रादित्युकम् । ततश्च गुणफलसम्बन्धविधाने
दिबहुदोषवत्त्वादुद्भिच्छन्दस्य
 
[ कर्मनामधेय-
अथातोरत्यन्तपारार्थ्या-
गुणविशिष्ट कर्मविधानमेव
 
गुणसमर्पकत्वे
 
स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमात्रं लक्ष्यम् । उद्भिच्छ-
ब्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफल सम्बन्धविधानाल्लाघवं
भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्वर्थस्यैव फलोद्देशेन
विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वे तेन मत्वथं लक्षयित्वा गुण-
विशिष्टकर्मविधानं स्वीकार्यम्-उद्भिद्धता यागेन पशुन् भावयेदिति ।
 
कर्मनामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा। मुख्ययैव वृत्त्या
यजिसामानाधिकरण्येन तस्यान्वयसम्भवात्-उद्भिदा यागेन पशून् भावये.
दिति । संभवति च मुख्येऽर्थे न लक्षणा आश्रयितुं युक्ता । सन्निकृष्टविधानं
तु समानमेव ।
 
कल
 
न चैवं 'सोमेन यजेत' इत्यत्रापि सोमपदस्य यागनामधेयत्वा.
पातः, गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य
 
त्या-ततश्चेति । अस्मिन् पक्षे लाघवमुपपादयति-तथा सतीति । गुण.
विशिष्टकर्मविधिस्वीकार इत्यर्थः । यजिना यजिधातुना । लघुभूतमिति । आश्रयत्वा.
पेक्षयेति शेषः । एवञ्च गुणफल सम्बन्धविधिपक्षे यजिधातुना गुरुभूतमाश्रयत्वं, उद्भिदेति
तृतीयया करणत्वेनान्वययोग्यं करणत्वं धातुना च तदन्त्रययोग्यं करणत्वं च लक्षणीयम्,
"धातुपारार्थ्यांदिरूपाश्च दोषाः इत्यत्यन्तगौरवम् गुणविशिष्ट कर्मविधिपक्षे यजिधातुना
लघुभूतं करणत्वं उद्भिच्छन्देन च मत्वर्थः इत्युभयमेव लक्षणीयम् । धातुपा रार्थ्यादिकं
तु नास्तीत्यादि बोध्यम् ।
FIFing Piples E
 
तर्हि गुणविशिष्ट कर्मविधिरेवाङ्गीक्रियताम्, किमप्रवृत्तिविशेषकरन। मधेयत्वाङ्गी कारेण,
तहकर्मेति । सत्यमनेकदोषापादकगुणफलसम्बन्धविधानापेक्षया लक्षणाद्वया-
पादकविशिष्टविष्यङ्गीकरणमेव युक्तम्, तथापि कर्मनामधेयत्वाङ्गीकारे तदपि लक्षणाद्वयं
न भवतीत्यस्ति ततोऽपि लाघवमित्याशयः । उद्भिच्छब्दस्येति । अनेनाप्राप्तिस्थले
धात्वर्थस्य करणत्वेनैवान्वयात् तादृश करणत्वस्य धातुनैव लक्षणीयत्वात् सा लक्षणा पर-
समवर्जनीयेति सूचितम् । मुख्ययैवेति । शक्त्येवेत्यर्थः । तस्य उद्भित्पदार्थस्य ।
उद्भिदा यागेनेति । उद्भिदभिन्नयागेनेत्यर्थः । यद्यपि मीमांसकमते प्राथमिकबोधवे.
लायां नामार्थयोः परस्परान्वयो न व्युत्पन्नः, तथापि उद्भित्पदार्थस्य साक्षादेव प्रथमतो
भावनान्वये पश्चात् नामधेयस्य परिच्छेद्यापेक्षायां घात्वर्थ स्यापरिच्छिन्नस्यानुष्ठानायो-
गात् परिच्छेदकापेक्षायां पश्चादरुणैकहायनीन्यायेन पाण्ठिकोऽभेदेन परस्परं सम्बन्धः
इति ध्येयम् । समानमेवेति । विशिष्टविधिनामधेयत्वपढ्योरिति शेषः । एवञ्च विशि-
ष्टविधिपक्षे लक्षणादोष एक आपद्यते, नामधेयत्वपक्षे तु सोऽपि नास्तीति सूचितम् ।
 
नन्वेवं गुणविधौ सम्भवत्यपि मत्वर्थलक्षणाभयादेव यदि कर्मनामधेयत्वाशी करणं,
तहिं "सोमेन यजेते" त्यस्यापि गुणविधित्वे मत्वर्थलक्षणापत्या तदनापादकं सोमप-
UNDE
1917