2023-02-15 04:03:44 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्या संवलितः
याभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य
त्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृती-
याभिहितम् । करणशब्दादिव तृतीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च कर-
णत्वेनान्वययोग्य गुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वाच्या ।
लक्षणया चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभा-
वनायां यत्करणत्वं तदपि लक्षणयैव वाच्यम्, श्रयमाणया तृतीयया गुण-
मात्रस्य यागं प्रति करणत्वाभिधानात् ।
अत एव (१) तन्त्ररत्ने चतुर्थे करणीभूतगोदोहनादेः पश्वर्थत्वं समभिव्याहा-
करणत्वस्य कारकत्वावश्यंभावात् कारकस्य च तस्य क्रियाभिन्नेन करणत्वेनान्थ्यो न
सम्भवतीति भावः । करणकारकस्येति । करणत्वरूपं यत् कारकं तस्येत्यर्थः । ननु
नायं नियमस्सम्भवति, बाणेन करणेन हृतः, दना करणेन होमः सम्पाद्यते, इत्यादौ
करणकारकस्यापि क्रियाभिन्नेन करणत्वेनान्वयस्य शतशस्स्वीकारात्, श्रत ग्राह-कर.
गशब्देनेति । सत्यमङ्गीक्रियते, परन्तु तन्न तृतीयाभिहितम्, किन्तु करणशब्दाभि-
हितम् । करणशब्देन द्दि कृदन्तेन द्रव्योपसर्जनीभूतस्यैव करणकारकस्याभिघानात् युक्तः
तस्य पदार्थान्तरेणाप्यन्वयः । तृतीयया तु श्रंन्यानुपसर्जनीभूतस्यैव तस्याभिघानात् न
तस्य क्रियातिरिक्तेनान्वयस्सम्भवतीत्यर्थः । तथात्वे अनिष्टमापादयति- करणशब्दा-
दिति । अतोऽपरिहार्या लक्षणेत्युपसंहरति -प्रतश्चेति ।
एवं गुणनिष्ठ करणत्वस्य प्रतीतिर्लक्षणयैव भवितुमर्हतीति निरूप्य तादृशकरणत्व-
स्थान्वययोग्यं यत् करणटवं तस्याप्युपस्थितिलक्षणयैव वक्तव्येस्याह – लक्षणयेति ।
ननु गुणफल सम्बन्धविधिस्थले तृतीयावगतकरणत्वस्य धात्वर्थनिरूपितत्वे गुणस्य तत्क-
रणत्वस्य वा यत्फलभावनाकरणत्वं तद्द्बोधकस्य शब्दस्याभावात् तत्प्रतीतिरेव न स्यात्,
न हि तृतीया तल्लक्षिका, तथा गुणनिष्ठ करणत्वस्य लक्षितत्वेन लक्षणाद्वयासम्भवात्,
इत्यत आह - अत एवेति । एतादृशदोषभियैवेत्यर्थः । गोदोहनादेरिति । "गोदो-
हनेन पशुकामस्य प्रणयेत्" इत्यादिना विहितानां गोदोहनादीनां गुणानामित्यर्थः ।
दर्शपूर्णमा सप्रकरणे-'चमसेनापः प्रणयेत्' इति अप्प्रणयनाङ्गत्वेन चमसाख्यः पात्रविशेषो
दारूनिर्मितो विहितः । यदि पशुरूपफलेच्छा, तदा तदेव प्रणयनं गोंदोइनेन कर्तव्यमिति,
यस्मिन् पात्रे गौह्यते तत्पात्रं गोदोहनशब्दार्थः । पश्वर्थत्वं पशुरूपफलार्थवम् ।
समभिव्याहारादिति । अयं हि तत्रव्यो प्रन्थः- "यद्यपि पशुकामपदसमभिब्या-
हारात् पुरुषार्थत्वं तस्य, तथापि क्रत्वर्थप्रणयनाश्रयणात् तम्मुखेन ऋतूपका-
रकत्वं तावदवश्यानो कर्तव्यम्" इति । एवञ्च लक्षणातो बिभ्यद्भिरेव तन्त्ररत्न का रैः
गुणफल सम्बन्धविधिस्थले गुणस्य फलाङ्गता समभिव्याहारेणेत्युक्तमिति भावः । अत-
श्रोद्धिच्छब्दस्य गुणसमर्पकत्वे तद्वाक्यस्य गुणफलसम्बन्धविधायकत्वाङ्गीकारापातात्
तत्र च धातुपारार्थ्यादिदोषबहुत्वात् तदपेक्षया वरं गुणविशिष्टघात्वर्थविधिस्वी करण मि
१. *तन्त्ररत्नम् श्रीपार्थसारथिमिश्रकृतो व्याख्यानविशेषः श्रीकुमारिलस्वामिकतायाः टुपटीकायाः ।