This page has not been fully proofread.

निरूपणम् ।
 
सारविवेचिनोव्याख्यासंवलितः
 
र्थविधानापत्तेः धात्वर्थस्य स्वरूपेणाविधानात्तदुद्देशेन वान्यस्य कस्यचि
दविधानाद्धातोरत्यन्तपारार्थ्यापत्तेश्च यज्यानर्थक्यापत्तेश्च; न हि तदानेन
करणं समप्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम्, पशोंर्भाव्य-
त्वेनान्वयात् ।
 

 
अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति चेत्-नः
यजेतेत्यत्र माश्रयत्ववाचक पदाभावात् । श्रथ सिद्धान्ते करणत्वमिवाश्रय-
स्वमपि लक्ष्यमिति चेत्-न, श्राश्रयत्वापेक्षया करणध्वस्य लघुत्वेन तलक्ष-
णाया एव युक्तत्वात्। फलाय विधीयमानो गुणों यत्र (१) कारकतामा-
त्यर्थः । ननु "दघ्ना जुहोति" इत्यादी होमोहेशेन गुणविधानात् विप्रकृष्टार्थविधान-
मेवानीक्रियत इति तद्वदत्रापि भवतु, तह-धात्वर्थस्येति । अयं भावः - सर्वत्र
हि तावत् यद्यपि विधिर्भावनामेव विषयीकरोति तथापि निरवच्छिन्नायास्तस्याः विधिवि-
षयत्वासम्भवात् धात्वर्थमपि तादृशभावनाविशेषणतया स विधत्ते । यत्र तु स प्रमाणा-
न्तरेण प्राप्तः तत्र तदुद्देशेनान्यत् विघत्ते । एवञ्च धात्वर्थस्य विधौ विधेयत्वेन सम्बन्धो
मुख्यः कल्पः, उद्देश्यत्वेन सम्बन्धस्ततो जघन्यः कल्पः, उभयथाप्य सम्बन्धोऽत्यन्तज-
घन्यः; प्रकृते च विधेयत्वस्य गुणसंक्रान्तत्वात् उद्देश्यत्वस्य च फलनिष्ठत्वात् धात्वर्थ-
स्योभयथापि सम्बन्धाभावेनात्यन्तजघन्यता पत। अत्यन्तपारार्थ्यापत्तेरिति ।
धातोः स्वार्थमुच्चारणाभावात् पशुद्भित्सम्बन्धविधानार्थं विधिप्रत्ययस्यावश्यकत्वेन केव-
लक्ष्य तस्य प्रयोगान र्हत्वात् तदर्थमेव धातोरच्चारणमित्यत्यन्तपारार्थ्यमित्यर्थः । पारार्थ्या.
पत्तेः फलमाह-यजीति । आनर्थक्यापत्तिमेवोपपादयति-न हीति । तदा गुणफलस-
म्बन्धविध्यङ्गीकारे । अनेन यजिघाना । फल मिति । समर्प्यत इति शेषः । अत्र फल-
शब्द उद्देश्यत्वापरपर्यायः । एवंच धात्वर्थस्य भावनाया मुद्देश्यत्वेनाप्यन्वयो न भवती-
त्यर्थः । पशोरिति । भाव्यस्योद्देश्यानन्यत्वादिति भावः ।
 
M
 
ननु गुणफलसम्बन्धविधिस्थले गुणनिष्ठ करणत्वस्यैव फलोद्देशेन विधानात् तस्य
निरूपकापेक्षायां धास्वर्थस्यैव तन्निरूपकत्वरूपाश्रयत्वेनान्वयाङ्गीकारात् कथं यज्यानर्थक्य-
मित्याशङ्कते- प्रथेति । यागाश्रितेनोद्भिन्निष्ठ करणत्वेन पशून् भावयेदिति वाक्यार्थोऽ-
भिप्रेतः । तथा च घातोरत्यन्तपारार्थ्यांदिको दोषः परिहियेतेति भावः । समाधत्ते-नेति ।
यजेतेत्यत्रेति । 'उद्भिदा यजेते'त्यत्र यजिषातोः प्रत्ययस्य च श्रवणात घातोः याग.
मात्रवाचिस्वात् प्रत्ययेन च विधिभावनयोरभिधानात् तदतिरिक्तस्य च कस्यचिदाश्रय-
स्ववाचकस्य पदस्य।श्रवणादित्यर्थः । यद्येवं तर्हि उत्पत्तिविधिमीकुर्वतो भवतो मते
धात्वर्थस्य कथमन्वयः ? करणत्वेनेति चेत् कथमेतत् १ तद्वाचकतृतीयाभावात् । यदि
च "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह व्रतः" इत्यनुशासनबलात् घातोरेव करणत्वल-
क्षकत्वमित्युच्येत, तर्हि ममाप्याश्रयत्वमेव धातुना लक्ष्यतामित्याशङ्कते-अथेति । तल्ल-
क्षणायाः करणश्वलक्षणायाः । कथं करणत्वस्य लघुभूतत्वम् ? प्रत आह-फलायेति ।
 
asute
 
Bhandarkar Oriental
 
MOUSS
 
१. प्रकारताम्, क
१६ मो० न्या०