2023-02-15 04:03:44 by ambuda-bot
This page has not been fully proofread.
१२०
मीमांसान्यायप्रकाशः
[ नामधेय-
O
। (मत्वर्थलक्षणाभयात् कर्मनामधेयत्वनिरूपणम्)
तत्र "उद्भिदा यजेत पशुकाम" इत्यत्र उद्भिच्छन्दस्य यागनामधेवत्वं
मत्वर्थलक्षणाभयात् । तथा हि-
उद्भिच्छन्दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न (१)गुणविधानं
युज्यते, फलपदानर्थक्यापत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं
(२) तस्मिंश्च गुणविधानं युज्यते, वाक्यभेदापत्तेः ।
नापि गुणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानेन विप्रकृष्टा-
( मस्वर्थलक्षणाभयात् कर्मनामधेयत्व निरूपणम् )
तत्र तावत् प्रथमं निमित्तमुदाहरति - उद्भिदेति । उद्भित्संज्ञकेन यागेन पशुरूपं फलं
भावयेदिति वाक्यार्थः । नन्वत्र उद्भिच्छब्दस्य गुणसमर्पकत्वे सम्भवति किमर्थमप्रवृत्ति-
विशेष करना मधेयत्वाङ्गीकरणमित्यत श्राह-मत्वर्थलक्षणाभयादिति । गुणविधित्व-
स्वीकारे मत्वर्थलक्षणाजीकरणरूपो यो दोषः तद्भयादित्यर्थः । गुणसमर्पकत्वे मत्वर्थ.
लक्षणारूपदोषापत्तिमेवोपपादयति-तथा हीति ।
उद्भिद्यते उर्ध्वं विदार्यते भूमिरनेनेति व्युत्पत्त्या भूमेरुवंविदारणसाधनं खनि
त्रादिः पूर्वपक्षेऽर्थो वेदितव्यः । यागानुवादेनेति । सोमेन यजेतेत्यनेन यों विंहितो
ज्योतिष्टोमः तदुद्देशेनेत्यर्थः । यद्यपि ताण्डके षष्ठेऽध्याये श्रग्निष्टोमविधानात् एकोनविंशे
चोद्भिद्वलभिदादीनां द्वन्द्वानां ऋतूनां विधानात् मध्ये च साद्यस्क्रादीनां बहूनां क्रतूनां
विधानेन तैः व्यवधानात् अत्र प्रकरणशवनोदेतीत्यप्रकृतस्य यागस्योद्देश्यत्वकथनं न
युक्तम्, तथापि षष्ठे विहितस्याप्यग्निष्टोमस्य दक्षिणादिविधानार्थं षोडशेऽध्याये पुनरु-
पादानात् तदुत्तरपठिताना मे का हादीनामप्युदाहरणत्वादुपस्थितिरस्ती त्यभिन्धायेदमुक्तं वा-
त्तिकादौ; तदेवात्रापि ग्रन्थकृतानूदितमिति वेदितव्यम् । फलपदानर्थक्यापत्ते रिति ।
यागानुवादेन गुणविधाने यागस्यैवोद्देश्यत्वेन फलस्य तदनापत्या तस्याप्युद्देश्यत्वानी कारे
वा अनेकोद्देश्यत्व निबन्धनवाक्यमेदापत्त्या परिशेषात् फलपदस्यानर्थक्य मेवापाद्येतेति
भावः । नन्वेवं तर्हि वाक्यस्यास्य गुणसमर्पकत्वं फलसमर्पकत्वं चेत्युभयमङ्गीक्रियते,
फलोद्देशेन यागविधानात् न फलपदानर्थक्यम्, यागोद्देशेन गुण विधानाच न गुणपदान-
र्थक्यमपीत्याशङ्कायामाह-न चेति । वाक्यभेदापत्तेरिति । तथात्वे यागस्य तन्त्रेण
युगपदुभयत्र सम्बन्धोऽङ्गीकर्तव्यः, स च न सम्भवतीत्युपपादितमधस्तात् । अतो विधेरा-
वृत्ति मङ्गीकृत्य यागेन फलं भावयेत्, सोमेन यागं भावयेत् इत्येव वाक्यार्थोऽङ्गीकार्यः,
ततश्च विध्यावृत्तिलक्षणो वाक्यभेद इत्यर्थः ।
125
FOUNDED
ननु "दध्नेन्द्रियकामस्य जुहुया"दित्यादौ यथा प्रकृतं अग्निहोत्रहो ममाश्रित्य
इन्द्रिय प्राप्ति रूपफलोद्देशेन दधिरूपगुण विधानमजी क्रियते तद्वदत्रापि प्रकृतं ज्योतिष्टोम•
माश्रित्य पशुरूपफलोद्देशे नोद्भिद्रपगुण विधिरङ्गीक्रियताम्, न भविष्यति वाक्य भेदः इत्यत
श्राह-नापीति । परेति । धास्वर्थादतिरिक्तः यः उद्भिद्गुणरूपः पदार्थः तद्विधानेने
१. गुणणे विधीयते. क. २. तस्मिंश्च गुणविधानमिति नास्ति. क.