This page has not been fully proofread.

[ e ]
 
प्राप्तदण्डानां दण्डनम्, निर्दोषाणां दोषोद्भावनम्, अतदर्शणां तदर्हतापादनम्, श्र.
स्थाने च फलप्रापणम्, प्राप्तव्यस्य चाऽप्रापणमिति कियतौयमनर्थपरम्परा । उक्तं हि
भट्टकुमारिलेन-
"मीमांसायां त्विहाज्ञाते दुर्शाते वाऽविवेकतः ।
 
न्यायमार्गे महान्दोष इति यत्नोपचर्यता" ॥
 
इति । "मीमांसा हि सर्वशास्त्रगताज्ञानसन्देहविपय यव्युदासक्षमन्याय निवन्धना-
त्मिका । तदस्यामज्ञातायां न किञ्चिदपि ज्ञातं भवति । श्रतो महान्तमनर्थ
प्राप्नोति ।" इत्यदसीयव्याख्यायां काशिकायां सुचरितमिश्रः । न्यायाभियोगशून्यो
हि पुरुषः, किमिदमुत्सृष्टम् ! उतापोदितम् ? श्रत्र हेतुवन्निगदाधिकरणन्यायेनार्थं-
वादता ? उत 'न ह्यत्र' न्यायॆन हेतुविधित्वम् ? अत्र पर्णमयीन्यायेन केवलस्तुतिप-
रता १ श्राहोस्विद्रात्रिसन्नन्यायेन फलपरत्वमपि ? किमयमनुवादः परम् ! उतोपरिधा-
रणन्यायेन विधिकल्पकता ? किमत्र ग्रहैकत्वन्यायः प्रवर्तते ? उताहो पश्वे रुत्वन्यायः
प्रसरं लभते ? किमत्राऽऽत्यन्तिको निषेधः ? किं वा 'न तो पशौ करोती'ति न्यायेन
विकल्पे पर्यवसानम् ? किमत्र बाघः ! उताभ्युचयः ! इत्यादीनत्यन्तगभीरानतिदुर्वि.
गाहान् विषयान्कथं निर्धारयितुं प्रभवेत् ? न च वाच्यम्, भाषान्तरीयेषु प्रन्येषु नैतेषा-
मावश्यकतेति । न्यायस्य विषयैकगोचरत्वात् । श्रस्माकीनव्यवहार निर्णय स्यास्माकीन-
ग्रन्थेम्य एव कर्तव्यतौचित्याच्च । श्रतो न्यायालयाधिकृतैरन्यैश्च भारतशासनभारं स्व.
स्कन्धे कुर्वद्भिरपन्यायभीतैः उच्छृङ्खलताया श्रात्मानं गोसुकामैः विना मीमांसा पदमेक-
मपि न चलितुं शक्यत इति तेषामत्र दृष्टिमा कष्टुम भिलषामि ।
 
मीमांसायाः प्रसारक्रमः
 
एवं वेदलोकोमयोपकारि शास्त्रमिदं सर्वत्र प्रसारयितुकामा महर्षिजैमिन्या चार्य-
शबरस्वामिप्रभृतयो महाभागाः सूत्रभाष्यादिप्रन्थानरीरचन् । ते चातिगहना दुर्विगाहाः ।
इतस्ततः परीशीलनयाऽवगम्यते शाबरादपि भाग्यात्पूर्वतनानि कानिचन भाष्याणि
मीमांसासूत्राणामासन्नित्यभ्यूहितमस्त्यवकाशः । परं तानि न कुत्राप्युपलभ्यन्ते नामतो
रूपतो वा । शाबरं भाग्यं व्याख्यातं श्रीकुमारिल मट्टपादैः प्रभाकर मिश्रैश । उभयैषा•
ममीषां परस्पर विभिन्नैव रीतिरासीद्भाष्यविवरण विधौ । उभयेऽपि स्वतन्त्रप्रज्ञा विचार.
चतुरा विवेचननिपुणा आसन् । श्रतो मतद्वयमतः प्रवृत्तं भाहं प्राभाकरं चेति । तत्र
शाबरभाष्यस्य भट्टमते भट्टवार्तिकम्, न्यायसुधा, शास्त्रदीपिका, मयूखमालिका, मयू.
खावलिः, प्रकाशः, भाट्टदीपिका; प्रभावलिः, चन्द्रोदयः, इत्यादयो नैके नैकविधा प्रन्थाः,
व्याख्या, तद्वयाख्या, तद्व्याख्या इत्येवंरूपेण प्रसृताः । एवं बृहती, ऋजुविमला, नय-
विवेकः, नयविवेकदीपिका, इत्यादयोऽपि प्राभाकरमते व्याख्यातद्वपाख्यारूपेण प्रसृताः ।
परमद्यत्वे न तावान्प्रसरो लोके प्राभाकरमतस्य यावान्भाइमतस्य । प्रभाकर मिश्रनिर्मिता
भाग्यटीकापि श्रद्य यावन्न समप्रा मुद्रिता । प्रभाकरमिश्रैः बृहती लध्वी चेति व्याख्या.
द्वयं रचितं शावरभाष्यस्य । तत्र प्रथमात्यल्पशो मुद्रिता, द्वितीया नाम्ना परं श्रयते न तु
स्वरूपत उभलभ्यते । न जाने प्रन्थरत्नानाममीष शास्त्र जीवातूनां मुद्रणप्रकाशनप्रचारादौ
कदा भूतभावनो भगवाननुमहीण्यतीति ।
 
POONA
 
DED
 
Research Institute