This page has not been fully proofread.

सारविवेचनी व्याख्यासंवलितः
 
(नामधेय निरूपणम्)
 
नामधेयानां
 
विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथा हि- 'उद्भि
दा यजेत पशुकामः' इत्यत्र उद्भिच्छब्दो यागनामधेयम् । तेन च विधे-
यार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो
विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते । तत्र
कोऽसौ विशेषः ? इत्यपेक्षायां उद्भिच्छन्दादुद्भिद्रूपो याग इति ज्ञायते ।
उद्भिदा यागेनेति सामानाधिकरण्येन नामधेयान्वयात् ।
 
DY
 
तस्य च यजिना सामानाधिकरण्यं न नीलोत्पलादिशब्दवत् । तत्र दि
उत्पलशब्दस्यार्थादुत्पलादन्यो नोलशब्दस्य वाच्योर्थोऽस्ति नीलगुणः ।
 
(नामधेयनिरूपणम्)
 
एतावता मन्त्राणां प्रयोजनवत्वमुपवर्ण्य इदानीमवसर प्राप्तं कर्मनामधेयानां प्रयोजन
वत्वमुपपादयितुमारभते-नामधेयानामिति । ननु नामधेयानां न धर्मे प्रामाण्यं सम्भ-
वति, तेषां त्र्यंशानन्तःपातित्वात, तथा हि-न तावदेतेषां फलबोधकत्वम्, कामशब्दा-
द्यभावेन तृतीयान्तत्वेन च फलप्रतिपादकत्वासम्भवात् । नापि साधनबोधकत्वम्, समा-
नपदोपात्तेन धात्वर्थेनावरूद्धायां भावनायां पदान्तरोपात्तानां तथात्वासम्भवात् । नापि
गुण विधायकत्वेनार्थभावनेतिकर्तव्यतान्तर्भावः, उद्भिदादिपदवाच्यस्य कस्यचित् गुणस्या.
प्रसिद्धेः । नापि विधेयार्थस्तावकत्वेन प्रामाण्यम्, उद्भिदादिपदमात्रेण कस्या अपि
स्तुतिबुद्धेरनुयात् । नापि मन्त्रान्तर्भावः, उद्भिदादिपदेषु मन्त्रप्रसिद्धेरभावात् । अतो.
ऽन्यस्य कस्यापि धर्मंप्रामाण्य प्रकारस्याभावात् न नामधेयानां धर्मप्रामाण्य सम्भव इत्यत
श्राह-विधेयार्थ परिच्छेदकतयेति । विधेयो यो घात्वर्थो यागादिः क्रियारूपः तस्प-
रिच्छेदकतया इतरेभ्यो व्यवच्छेदकतयेत्यर्थः । विधिविषयीभूतघात्वर्थनिष्ठ वैजात्यबोध•
कत्वेनेति यावत् । तेन व्रीह्यादिपदेषु नातिव्याप्तिः । उदाहरति तथा होति । परिच्छे-
दनस्वरूप मेवाह - अनेन हीति । यागसामान्यस्य चाविधेयत्वादिति । विधेयत्वं
चाप्रवृत्तप्रवृत्तिविषयत्वरूपम्, तत्र च यावन्न विशेषोऽवगम्यते, तावत् क्वचिदपि पुरुषस्य
प्रवृत्यनुदयात् विधेः प्रवर्त्तकत्वरूपं विधायकत्वमेव भन्येवेति भावः । श्रुतम्भ यजेतेत्यनेन
यागविशेषस्य विहितत्वात् विशेषस्वरूपजिज्ञासायां उद्भित्पदं तादृश विशेषस्वरूपबोधक-
मित्याह- कोऽसाविति । ननु अत्रोद्भिस्पदं यागवाचकमेवेत्यत्र किं प्रमाणम् ? अत
श्राइ- सामानाधिकरण्येनेति । एवञ्च उद्भिद्यजिपदयोः सामानाधिकरण्येनै कार्थवाचि-
त्वावगमात् तदन्यथानुपपत्त्या उद्भित्पदस्य यागवाचित्वमङ्गीकर्तव्यमेवेति भावः ।
 
निरूपणम् ]
 
११७
 
UND
1917
 
नम्वत्र सामानाधिकरण्याङ्गीकारे उभयत्रापि भिन्नेन प्रवृत्तिनिमित्तेन भाव्यम् ।
भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधकत्वस्यैव सामानाधिकरण्यात्, प्रकृते च उद्भच्छन्द
वाथ्यस्यार्थान्तरस्य कस्यचित् प्रसिद्धस्याभावात् प्रवृत्ति निमित्तस्यैवाभावेन तद्भेदस्य दूरा
पास्तत्वात् । अतः कथमन्त्र सामानाधिकरण्यम् ? इत्यत आह-तस्य चेात । उद्भि-
च्छब्दस्येत्यर्थः । नीलगुण इति ।

 
Bhandarkar Oriental