This page has not been fully proofread.

११६
 
मीमांसान्यायप्रकाशः
 
[ मन्त्र-
"पञ्च पञ्चनखा भक्ष्या" इत्यत्र तु लाक्षणिको । इतरनिवृत्तिवाच
कस्य पदस्याभावात् । अत एवैषा त्रिदोषग्रस्ता । दोषत्रयं च श्रुतहानिर-
श्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य । पञ्चनखभक्षणस्य हानादश्रुतपञ्चा-
तिरिक्तपञ्चनखभक्षणनिवृत्ति कल्पनात् प्राप्तस्य च पञ्चातिरिक्तपञ्चन खभक्ष.
रास्य बाधादिति । अस्मिश्च दोषत्रये दोषद्वयं शब्दनिष्ठम्, प्राप्तबाधस्तु
दोषोऽर्थनिष्ठ इति दिक ।
 
तत्सिद्धं मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणान्न मन्त्राम्नानमनर्थ-
कम् । मतश्च युक्तं मन्त्राणां प्रयोगसमवेतार्थस्मारकतयार्थवत्वम् ।
 
तत्र ये मन्त्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं सम्भ-
वति तदा तत्रैव विनियोगः । येषां तु न सम्भवति तेषां यत्र सम्भवति
तत्रोत्कर्षः, यथा-पूषाद्यनु मन्त्रण मन्त्राणामित्युक्तम् । येषां क्वापि न सम्भ-
वति तदुच्चारणस्य त्वगत्याऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति ॥
तद्वयतिरिक्तविषयिण्येवेयं परिसंख्येति विज्ञायते । तत्रापि न बहिष्पवमानस्तोत्रेऽयं सामा.
वापस्सम्भवति, तत्र सामैकस्वस्थ प्रत्यक्षतो विहितत्वात् । अतः परिशेषात् माध्यन्दिनप-
वमानार्भवपवमानविषय एव । तत्रापि साम्नामेवावापः, नर्चाम् । तासां तु प्रकृतितो-
इतिदिष्टानामेव अभ्यासेन संख्या सम्पत्तिरित्यायूह्यम् । एवं च सति यदत्रार्थसंग्रहव्या-
ख्यातृभिः शिवयोगिभिक्षुभिः "अत्र ह्येवावयन्ति" इति स्वकपोलकल्पितं पाठमवलम्ब्य
अवयन्तीति अवजानन्तीत्यर्थः । गायन्तीति यावत्, इति व्याख्यातम् यदपि कैश्चित्
एतग्रन्थव्याख्याने-पवमानसंज्ञकनानास्तोमलक्षणानि सामानि, स्तोमाख्यमन्त्राणाम्
इत्यादिकमुक्तं तत्सर्वे सम्प्रदायागतशास्त्रीय पदार्थाज्ञानमूल कमित्युपेक्षितव्यम् ।
 
लाक्षणिकीमुदाहरति-पञ्चेति । अत एव लाक्षणिकत्वादेव । प्राप्तस्येति । राग-
त इति शेषः ।
 
प्रसागतं विधित्रयनिरूपणं परिसमाप्य प्रकृतमुपसंहरति-तत्सिद्धमिति । तत्र
मन्त्राणां प्रयोजनवत्वप्रकारं विविय दर्शयति-तत्रेति । अर्थवतां मन्त्राणां मध्ये इत्यर्थः ।
यत्र यस्य कर्मणः प्रकरणे । तत्रैव तस्मिन्नेव कर्मणि । इत्युक्तमिति । लिङ्गनिरूपणा-
वसर इति शेषः । क्वापि न संभवतोति । प्रकरणे मुख्यार्थाभावेऽपि गौणायें
विनियोगसम्भवे तत्र विनियोगः, यथा-"त्वं ह्यग्ने प्रथमो मनोता" इत्यादौ ।
 

 
हि अग्नीषोमीयपशुप्रकरणे पाठाव तत्र च केवलाग्निदेवताकस्य यागस्या.
भावात् सामान्यसम्बन्धबोधकप्रमाणाभावेन चोत्कर्षस्याप्यसम्भवात् प्रकृत एव कर्मणि
अग्निपदस्याग्नीषोमलक्षणया निवेशः । लक्षणाया अपि च यत्रासम्भवः, नास्त्युत्कर्षे-
ऽपि सामान्यसम्बन्धबोधकं प्रमाणं, प्रकरणे च न मुख्यो न वा लाक्षणिकोऽर्थः, तेषामेव
परमदृष्टार्थत्वमङ्गीक्रियते, यथा - जपादिमन्त्राः इत्यर्थः । अगत्या इत्यनेन एवमगतिक -
स्थले क्वचिदष्टार्थवाङ्गीकारेऽपि सत्यां गतौ न युक्तमदृष्टार्थत्वाश्रयणमिति सूचितम् ।
मन्त्रनिरूपणमुपसंहरति - सर्वथापीति । स्वाध्याय विधिपरिगृहीतत्वेनाल्पशोऽप्यानर्थक्यो-
फेरयुक्तत्वादिति भावः ॥
 
1917