This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
की
 
( परिसंख्याभेदाः )
 
साच परिसङ्ख्या द्विविधा-श्रौती लाक्षणिकी चेति । तत्र 'अत्र होवा-
वपन्ति' इत्यत्र श्रौती परिसङ्ख्या । एवकारेण (१) पवमानातिरिक्तस्तो-
त्र्यावृत्तेरभिधानात् ।
 
११५
 
सरे "तत्फलभूतायाः शशादिपञ्चकव्यतिरिक्तपञ्चन स्वभक्षण निवृत्तेः" इत्येवोक्तम् । किञ्चास्य
वचनस्यापञ्चनखभक्षणमात्र निवर्तकत्वे वालिनोऽपि पञ्चनखत्वेन तद्भक्षणेऽपि दोषानापत्त्या
तेन स्वस्याभक्षणीयत्वकथनं एव च कारणात् स्वस्याहन्तव्यत्वबोधकं "सोऽयं
पञ्चनखो हतः" इत्यादिकं च सर्वथा विरुद्धमापद्येत । अतः पूर्वोक्तविधयैव व्याख्येयम् ॥
( परिसंख्याभेदाः )
 
परिसंख्यां विभजते-सा चेति । यत्र वाचकः शब्दः श्रूयते नञ् एवकारो वा सा
श्रौतीपरिसंख्येत्यर्थः । लाक्षणिकीति । यत्र शक्तशब्दो नास्ति, निवृत्तिबोधनं तु लक्ष-
गया, सा लाक्षणिकीत्यर्थः । मुदाहरति-अत्र ह्येवावपन्तीति । श्रत्रायं
विषयःः- ज्योतिष्टोमनाम के सोमयागे सर्वसोमयाग प्रकृतिभूते सन्ति चरवारः स्तोमाः-
त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, इति । प्रगीतमन्त्रसाध्यमुणि निष्ठगुणाभिधानं
स्तोत्रम् । तद्गता संख्या स्तोमशब्देनोच्यते । ज्योतिष्टोमविकृतिभूतेषु सोमयागेषु मध्ये
केचन प्रकृतितो विवृद्धस्तो मकाः,-'एकविंशेनातिरात्रेण प्रजाकामं याजयेत्' 'त्रिणवेनौ-
जस्कामम्' इत्यादयः । केचनाविवृद्धस्तोमकाः 'त्रिद निष्टुदग्निष्टोम' इत्यादयः । तत्र
यत्र क्रतौ स्तोमविवृद्धिराम्नाता, तत्र संख्यासम्पत्त्यर्थं स्थानान्तरादानीतानां साम्रां (२)प-
वमानस्तोत्रेषु तदितरस्तोत्रेषु च समुच्चयेनावापः प्राप्तः, एवं यत्राविवृद्धस्तोमकेषु प्राकृ-प्र
तसम संख्या कस्तोमकता, तन्यूनस्तोमकता वा, तत्र विशेषविहितानां साम्नां निवेशार्थं
यतः कुतश्चिदनियमेन सामोद्वापः प्राप्तः । तत्रेदमुच्यते - "त्रोणि ह वै यज्ञस्योदराणि
गायत्री बृहत्यनुष्टुप, अत्र ह्येवावपन्ति, अत एवोद्वपन्ति" इति । अस्यार्थः-
यज्ञस्य त्रीणि गायत्रीबृहत्यनुष्टुब्रूपाणि छन्दांसि उदरस्थानीयानि । अतः एतत्रितयातिरि
तेषु पवमानस्तोत्रसम्बन्धिषु छन्दस्सु पवमानातिरिक्तेषु स्तोत्रेषु वा न सामावापः कार्यः ।
एवमुद्वापोऽपि एतेभ्य एव कार्य इति । एवञ्च - "अत्र ह्येवावपति" इति वाक्यं विबृ-
दस्तोम केषु पवमानातिरिकस्तोत्रेषु सामावापपरिसंख्यापकम् । "अत एवोद्वपन्ती" ति
तु] अविवृद्धस्तोमकेषु गायत्र्याद्यधिकरण नियमपरमिति ।
 
वस्तुतस्तु श्रावापविधिरेव विवृद्धस्तोमकेषु परिसंख्यापरः श्रविवृद्धस्तोमकेषु निय-
मपरः । उद्वापस्त्वर्थसिद्धोऽनुवाद एवेत्यन्यत्र विस्तरः । आवापः प्रक्षेपः । उद्वापः
उद्धारः निष्कासनमिति यावत् । अतश्चात्र एवकारेण श्रुत्यैवान्यनिवृत्तेरभिधानादियं श्रौती
परिसंख्यैति । अत्र यद्यपि पवमानशब्दो न श्रूयते तथापि गायत्र्यादीनां तत्रैव सत्वात्
 
FOUNDED
 
१. गायत्रीबृइत्यनुष्टुबितरव्यावृत्तेः इति कस्मिंश्चित् लिखितपुस्तके पाठः।
 
२ ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि-बहिष्पवमानमेकं स्तोत्रम्, चत्वार्याज्यानि, चत्वारि पृष्ठानि,
माध्यन्दिनपवमानमेकम्, यज्ञायज्ञियमे कमिति । तेषां तथैव विकृतावतिदेशेन प्राप्तौ तत्र श्रुताधिकसं-
rkaf
Research Institute
 
ख्यासम्पत्स्यर्थं सर्वेष्वपि स्तोत्रेष्वविशेषात् आवापः प्राप्तः इति ।