2023-02-15 04:03:42 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः
1( श्रपूर्वविधिनिरूपणम्)
अस्थायमर्थः यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो
विधिः सोऽपूर्वविधिः। यथा- 'यजेत स्वर्गकामः' इत्यादिः। यागस्य हि स्वर्गा-
-
-
[ अपूर्वविषि
या एव वक्तव्यत्वात् तस्याश्च त्रिदोषप्रस्तत्वात् उपदिष्टाज्यभागवर्ज प्रयाजादीनामतिदेश:
इति षष्ठः ।
विकृतिभावनायाः उपकारापेक्षायां लाघवात् एकस्यैवातिदेशस्य कल्पनीयतया तस्य
च प्रयाजादीतराङ्गविषयकत्ववत् आज्यभागविषयकत्वस्याप्युपपत्तौ तद्वर्जने प्रमाणा-
भावात् प्राकृत सर्वाङ्गविषयकस्यातिदेशस्यानेन विशेषविषयकेणोपसंहारः सातदश्यवत्
इति सप्तमः ।
उपसंहारस्य क्रत्वङ्गभूतविशेषपदार्थगोचरत्वेन प्रतिदेशागोचरत्वात् क्लृप्तोपका रै:
प्राकृतैरराज्य मागादिभिः गृहमेघीयस्य नैराकांक्ष्यात् तस्यापूर्वस्वज्ञापनार्थमिदं वचनम् ।
प्राप्तपरिसंख्यात्वाच्च न त्रैदोषयमपीति - सिद्धान्तः । एवञ्चाज्यभागयोस्तदितराङ्गाणां
च युगपत् प्राप्तौ सत्यां इतराजपरिसंख्येति । पञ्चमपक्षे प्राप्त परिसंख्यात्वात् स्वार्थत्यागा-
दिरूपं त्रैदोग्यम् । श्रष्टमपक्षे चाऽप्राप्त परिसंख्यात्वान्न तदिति ध्येयम् ।
तत्र चान्यत्र च प्राप्ते इत्यमुमेव च पाठं मनसि निधायोदाहृतं वार्तिककारैः,
व्याख्यातञ्च न्यायसुधायाम् । अत एव दीक्षितेन्द्रः मीमांसकमूर्धन्यैः "प्राप्ति
श्शेषिद्वये चेदि"ति विधिरसायनमूलव्याख्यानावसरे — "तत्र चान्यत्र चेति
सप्तम्योः प्राप्त इति सप्तम्याश्च सामानाधिकरण्यविवक्षायां गर्दभरशनाग्रह.
णादिपरिसङ्ख्यायामेव लक्षणं न स्यात् । वैयधिकरण्येनान्वयविवक्षायां
शं विडोत्तगङ्गकलापादिपरिसंख्यायामेव न स्यात् । अत एव न्यायसुधायां
'तत्र चान्यत्र च प्राप्ते' इत्यस्य शेषान्तरपरिसंख्यायां सामानाधिकरण्येन
शेष्यन्तरपरिसंख्यायां वैयधिकरण्येन च योजना दर्शिता" इत्यादि सुखोप
योजिन्यामुक्तम् । इमामेव च योजनां मनसि निषाय सिद्धान्तलेशसङ्ग्रहे तैरेव
विधिविचारावसरे "द्वयोःशेषिणोरेकस्य शेषस्य वा, एकस्मिन् शेषिणि द्वयो.
श्शेषर्योर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधि
स्तृतीयः" इत्येव परिसङख्या लक्षणमुक्तम् । एवञ्च सति तत्र चान्यत्र च प्राप्तौ इति
बहुत्र पाठ उपलभ्यते स लेखकप्रमादकृत इति भाति । स्वयमेव वार्तिकार्थ विवृणोति-
अस्येति ।
प्रथमपादं व्याचष्टे-यस्येति । प्रमाणान्तरेखेति । एतद्वाक्यातिरिक्तेन वैदिकवा-
क्यान्तरेण प्रत्यक्षादिना वेदातिरिक्तेन प्रमाणेन चेत्यर्थः । तदर्थत्वेनेति । श्रप्राप्तार्थ-
प्रापकत्वेनेत्यर्थः । अत्र च एतद्विध्यप्रवृत्तिदशायामिति विध्यन्त प्रवृत्ति सहकृतैतद्विध्य
प्रवृत्तिदशायामिति चाप्राप्तिविशेषणं बोध्यम् । एवमेव नियमपरिसंख्या विध्योः पाक्षिका-
प्राप्तौ समुच्चित्य प्राप्तौ च विशेषणं योजनीयम् । एवञ्च विध्यन्तराप्रवृत्तिसहितायां केव-
लायां वा तत्तद्विध्यप्रवृत्तौ यस्य प्राप्तिरात्यन्तिकी तत्प्रापको यो विधिः सोऽपूर्वविधिः,
तन्मात्र विध्यप्रवृत्तदशायां विध्यन्तराप्रवृत्ति सहकृतैत द्विध्यप्रवृत्तिदशायां वा या अवहन-
लावधीत
rkar Or