This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसइयेति गीयते ॥ इति ।
 
या इतरस्याप्राप्तिः, तत्प्रापको विधिर्नियम विधिरित्यर्थः । अत्र विधियलक्षकं वार्तिकं प्र-
माणयति-विधिरिति । एतद्विध्यप्रवृत्तिदशायां प्रमाणान्तरेणास्यन्तमप्रासमर्थ यः प्राप-
यति सोऽप्राप्तप्रापकत्वात् विधिरित्युच्यते । यत्र प्रागेतद्वचनात् पाक्षिकी प्राप्तिः सम्भा-
व्यते तत्राप्राप्तिपक्षं यो नियमयति स विधिः नियामकत्वात् नियम इत्युच्यते । अत्रोभय•
त्रोदाहरणं मूल एवस्पष्टीकृतम् । तत्र चाम्यत्र चेति सप्तमीद्वयैन साकं प्राप्ते इत्यस्य
वैयधिकरण्येन सामानाधिकरण्येन च द्वेधा अन्वयस्सम्भवति । तत्र वैयधिकरण्येनान्वये
तस्मिन् अन्यस्मिंश्च शेषिणि एकः शेषः यदि प्राप्नुयात्, तत्रान्यतरशेषिणः परिसंख्येति
शेषिपरिसंख्या । सामानाधिकरण्येनान्वये तु स चान्यच शेषः एकस्मिन् शेषिणि प्राप्नु-
याच्चेत् अन्यतरस्य शेषस्य परिसंख्या शेषपरिसंख्येति । एवञ्च एकस्मिन् श्रङ्गे प्रधान-
द्वयसम्बन्धे नियतप्राप्ते, एकरिंमच प्रधाने श्रद्वयसम्बन्धे नियतप्राप्ते सति अन्यतर-
प्राप्त
निवृत्तिफलको विधिः परिसंख्याविधिरिति फलितम् ।
 
श्राद्यस्योदाहरणम् –"इमामगृभ्णब्रशनामृतस्येत्यभ्वाभिधानीमादत्ते"
इति । श्रश्र इमामगृभ्णन् रशनामिति लिङ्गादेव रशनाप्रकाशनरूपात् मन्त्रस्य
सन्निहितायामश्वरशनायामिव गर्दभरशनायामपि प्राप्तौ सत्यां विधिरत्यन्ताप्राप्तमर्थ प्राप-
यति । किन्तु गर्दभरशनातो मन्त्रस्य निवृत्तिं बोधयति ।
 
द्वितीयस्य तूदाहरणम्-गृहमेघीयाधिकरणे पञ्च मे पक्षे "श्राज्यभागौ यजती" ति
श्राज्यभागयोः तदितराज्ञानां च युगपदेकस्मिन् गृहमेघीये प्राप्तौ श्राज्यभागातिरिका ज्ञानां
परिसंख्या । तथा हि चातुर्मास्येषु साकमेधाख्यं तृतीयं पर्व । तच्च दिनद्वयानुष्ठेयम् ।
तत्र प्रथमदिनानुष्ठेयतया गृहमेघीयेष्टिं विधाय श्रुतं "श्राज्यभाग। यजति यज्ञतायै"
इति वाक्यमुदाहृत्य विचारितं दशमससमे । तत्राऽष्टौ पक्षा उक्ताः ।
 
तत्र दर्शपूर्णमासतोऽतिदेश प्राप्तयोराज्यभागयोः अनुवादमात्रमिद मिति- प्रथमः पक्षः
[[अनुवादमा त्रत्वे वैयर्थ्यापत्तेः तत्परिहारार्थे तत्र विहितयोरेवाज्यभागयोः इहाभ्यु-
दय कारित्वकल्पनया पुनर्विघानं ग्राज्यभागवत्वसादृश्येन प्रकृतिनियमार्थमिति-द्वितीयः ।
उभाभ्यामपि विधानेऽदृष्टार्थत्वापत्तेः "यज्ञताया" इति स्तुतिदर्शनात् प्रकृत गृह मे•
घीयस्तुत्यर्थं सार्थवादकं वचन मिति तृतीयः ।
 
-
 
ESTA
 
सम्बन्धिवाचनिक गुणव्यवहितेन गृहमेघीयवाक्येन एकवाक्यत्वाभावेन तत्स्ताव-
कत्वानुपपत्तेः अभ्यासात् श्राज्य भागधर्मक कर्मान्त रविधानार्थमिति चतुर्थः ।
 
NSHTUPA
 
POONA
 
1917
 
श्राज्यभागशब्दस्य घर्मलक्षणार्थत्वापत्तेः कर्मान्तर विध्ययोगात् अतिदेशेनाज्यभाग-
योः तदितरेषु च प्रयाजादिषु प्राप्तेषु श्राज्यभागपुनःभवणं तदितरप्रयाजादिपरिसंख्या-
र्थमिति पश्चमः
 
Bhandarkar Oriental
Research Institute
 
अस्य च चोदकात् पूर्व प्रवृत्यभावात् फलतः परिसंख्यात्वानुपपत्तेः प्राप्त परिसंख्या.