This page has not been fully proofread.

१०६
 
'भीमांसान्यायप्रकाशः[ अधिकारिविधि-)
 
ये तु पत्नीमात्रकर्तृकाः पदार्थाः आज्यावेक्षणादयस्ते ज्ञानं विनाश-
क्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते । तत्सिद्धमध्ययन विधि-
सिद्धज्ञानस्याथानसिद्धाग्निमत्ता याश्चोत्तरकर्मसु अधिकारिविशेषणत्वमिति ।
एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थ प्रति विध्य-
प्रवृत्तेः । 'आख्यातानामथं ब्रुवतां शक्तिः सहकारिणी' ति न्यायात् ।
 
तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न ह्यङ्गासमर्थः प्र.
धानमात्र समर्थच काम्ये कर्मण्यधिकारी । प्रधानविधेरङ्गविध्येकवाक्य-
तापन्नस्य साङ्गकर्मसमर्थं प्रत्येव प्रवृत्तेः । यथा विनियोगमधिकारात् ।
यदि हि समर्थ प्रत्येव प्रवृत्तौ कयाचित् श्रुत्या विरोधः स्यात् तदाऽस-
मर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थ प्र
त्येव प्रवृत्तौ विरोधाभावात् । प्रत्युतासमर्थ प्रति प्रवृत्ता प्रधानविधेरङ्ग-
वाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः। नित्यवत् श्रुतानाम-
ङ्गानां पाक्षिकत्व प्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः।
जातिविशेषः । नन्वेवं यथात्र विधिना ज्ञानाचेपात् तदौपयिकज्ञानसम्पादनेन निषादस्या.
धिकारोऽङ्गीक्रियते, एवमेव स्त्रिया अपि विधिना ज्ञानाक्षेपात् तदर्थमध्ययनं कुतो न
स्यात् ? इत्यत आह-एतावांस्त्विति । एवञ्च सत्यां गतौ नोत्तरकतुविधीनां ज्ञानाक्षेप-
कत्वशक्तिकल्पनं युक्तिसहमिति भावः ।
 
एवश्व ये यजमानकर्तृकाः पदार्थाः, तत्र यजमानज्ञानेनैव कार्यसिद्धावपि ये तावत्
यजमानेनासम्भवदनुष्ठानाः पत्नीमात्रकर्तृकाः तत्रागत्या तद्विघेर्ज्ञानाक्षेपकत्वशक्तिरङ्गी.
क्रियत एवेत्याह-ये विति। नैतावता सर्वेषामुत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वशक्तिकल्पन
मुचितमिति भावः । अग्निविद्ययोरधिकारिविशेषणत्वनिरूपणमुपसंहरति-तत्सिद्धमिति ।
 
एवमग्निविद्ययोरधिका रिविशेषणत्वमुपवर्ण्य इदानीं सामर्थ्यस्यापि तदुपपादयति- एव-
मिति । विध्यप्रवृत्तेरिति । अत एवासमर्थत्वात् तिरश्चामनधिकारः, देवादीनां विप्र-
हाद्यमावादेव नाधिकारः इत्यादि बोध्यम् । अङ्गप्रधानविषयमिति । सकलाङ्गानुष्ठधन-
समर्थः प्रधानामुष्ठानसमर्थश्च यः स एव काम्ये कर्मण्यधिकरोतीत्यर्थः । तदेवाह-
न त्विति । कुत एतत् ? ऋत ग्राह-प्रधानेति । अयमाशयः - अङ्गविध्येकवाक्यता-
पन्नः प्रधानविधिः प्रयोगविधिरित्युक्तम् । स च यथा प्रधानमनुष्ठापयति एवमङ्गविषयेऽप्यनु-
ष्ठापको भवतीति यत्किञ्चिदङ्गालो पेऽपि प्रधानस्य सर्वाङ्गसाहित्याभावेन वैगुण्यापत्त्या फला-
नुत्पत्तिप्रसङ्ग इति । यथाविनियोगमिति । साङ्गस्यैव प्रधानस्य फले विनियोगात्
तत्रैव चाधिकारोऽपि बक्तव्य इत्यर्थः । ननु यथा नित्यनैमित्तिकयोः यथाशक्त्युपबन्धा-
नुसारेण सङ्कोचोऽङ्गीक्रियते, तद्वत् काम्ये ऽपि कुतो न स्यात् ? अत आह- यदि
होति । ननु मास्तु कस्यापि प्रमाणस्य बाघः, तथापि सर्वाङ्गोपसंहाराभावे कस्यापि
प्रसाणस्य बाधी विधेः आनर्थक्यं वा यावत् न स्यात् तावत् दुःखात्म के कर्मणि कथं
प्रवृत्तिः स्यात् प्रेक्षावताम् ? ऋत बाह- प्रत्युतेति । ननु
विकल्पाजीकारे कथमास्यक्तिको बाघः ? अत ग्राह-नित्यवदिति । 1
 
नलम्बिधानमन्त
 
-