This page has not been fully proofread.

१०४
 
मीमांसान्यायप्रकाशः
 
[ अधिकारविधि-
अत एव च शुद्रस्य न यागादावधिकारः । तस्याध्ययनविधिसिद्धज्ञाना-
भावात्, माधानसिद्धाग्न्यभावाञ्च, अध्ययनस्योपनीताधिकारत्वादुपनयनस्य
चा 'टवर्षं ब्राह्मणमुपनयीते' त्यादिना त्रैवर्णिकाधिकारत्वात् । आधानस्यापि
'वसन्ते ब्राह्मणोऽग्नीनादधीत' इत्यादिना त्रैवर्णिकाधिकारत्वात् ।
 
यद्यपि च 'वर्षासु रथकारोऽग्नीनादधीते' त्यनेन रथकारस्य सौधन्वना-
परपर्यायस्याघानं विहितम्, योगाद्र ढेर्बलीयस्त्वात्, तथापि नास्योत्तरकर्म-
स्वधिकारः, अध्ययनविधिसिद्धज्ञानाभावात् ।
 
न च तदभावे श्राधानेऽपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादि-
ति वाच्यम्; तस्याध्ययन विधिसिद्धज्ञानाभावेऽपि 'वर्षासु रथकारोऽग्नी-
नादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञानाक्षेपणात् । अन्यथा एत-
स्यैव विधेरनुपपत्तेः । अतश्च रथकारस्याधानमात्रेऽधिकारेऽपि नोत्तरकर्म-
स्वधिकारः, विद्याभावात् ।
 
एवञ्च तदाधानं नाग्निसंस्कारार्थम् । संस्कृताना मग्नी नामुत्तरत्रोपयो-
गाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजिन्न्यायेन स्वर्गफल
षयकत्वादेव । उपनीताधिकारत्वादिति । 'अष्टवर्ष ब्राह्मणमुपनयति' तमध्याप-
यीत' इति तच्छब्देन उपनौतस्यैव परामर्शात्, उपनयनस्य च 'अष्टवर्षे ब्राह्मणमुपनयीत
एकादशवष रजिन्यं, द्वादशवर्षे वैश्यम्' इति त्रैवणिकमात्रं प्रति विहितत्वादिस्यर्थः ।
उपनयीतेत्यादिना एकादशवर्षे राजन्यमुपनयीत, 'द्वादशवर्ष वैश्य' मित्यनयोः परि
प्रहः। एवमुत्तरत्राप्यादिपदेन 'ग्रीष्मे राजन्यः, शरदि वैश्य' इत्यनयोः परिप्रहः ।
 
ननु शूद्रस्याप्यस्त्येव यागादावधिकारः, रथकारस्याघानश्रवणात् । न च त्रैवर्णिक
एव यदि कचिद्रथं करोति तस्यैष कालविधिः इति कथमनेन त्रैवर्णिकातिरिक्तस्य जाति-
विशेषस्याघानं सिध्यति । अत एव आपस्तम्बेनापि "ये त्रयाणां वर्णानामेतत्कर्म
कुर्वन्ति तेषामेष कालः" इति त्रैवर्णिकाधिकारिकत्वमेवोतमिति वाच्यम् । योगा-
पेक्षया रूढेर्बलीयस्त्वात्। न च प्रोक्षण्यधिकरणविरोधः । क्लृप्तस्यैव योगस्य कल्प्यरूढि-
बाधकरवस्य तदधिकरण विषयत्वात् । आपस्तम्बवचनस्य श्रवयवव्युत्पत्तिरूपहेतु मूल-
करवेन सन्न्यायविरोधे तस्यैव बाध्यत्वात् । श्रतः कथं त्रैवर्णिकमात्राधिकारिकत्व-
मित्याशङ्कय निराकरोति यद्यपीति । अस्य रथकारस्य । उत्तरकर्मसु श्राधानोत्तर.
कालिकेषु अग्निहोत्रदर्शपूर्णमासादिकर्मसु । ज्ञानाभावादिति । रथकारस्य वर्णत्रय-
बहिर्भूतत्वेन तस्योपनयनाभावादनुपनीत स्याध्ययनाभावात् तज्जन्यज्ञानस्य दुरापास्तत्वादि.
स्यर्थः । अनुपपत्तेरिति । एवञ्च श्राधानविधेः स्वान्यथानुपपत्त्या स्वमात्रौपयिकज्ञान-
माक्षिप्य रथकारविषये प्रवृत्तावपि नोत्तरक्रतुविधयस्तद्विषये प्रवर्त्तन्त इति भावः
 
तंज
 
नन्वेवं उत्तरक्रतुष्वधिकाराभावे श्राधान संस्कृतानामग्नीनां प्रयोजनाभावात् आघा.
नस्यैव वैयर्थ्य स्यादित्यत ग्राह-एवश्चेति । नाग्निसंस्कारकमिति । यथा नेवण-
ककर्तृकमाघानं उत्तरक्कतूपयोगि गाईपस्यादितत्तदग्निसंस्कारकं नैवं रथकारकर्तृकमाधान-
मित्यर्थः । उपयोगाभावादिति । यस्य बोत्तरत्र उपयोगः क्लृप्तः यथा-'व्रीहिभिर्य-
STITUT
 
POONA