This page has not been fully proofread.

१०२
 
कामीमांसान्यायप्रकाशः
 
[ अधिकार
विधि-
एवञ्च तत्तत्पशुपाकरणानां स्वस्वनियोजनैस्तुल्यं षोडशक्षणैर्व्यवधानं
भवति । अन्यथा केषांचित्यन्तव्यवधानं केषांचिश्याव्यवधानं स्यात् ।
तच्च न युक्तम् । तस्मात् येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयो.
अनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठित
पदार्थक्रमात् यो द्वितीय पदार्थक्रमः स
प्रवृत्तिकम इति ।
 
तदेवं निरूपितः संक्षेपतः षड्विधक्रमनिरूपणेन प्रयोगविधिव्यापारः ॥
( अधिकार विधिनिरूपणम् )
 
फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्वास्यं च कर्मजन्यफ
लभोक्तृत्वम् । स च 'यजेत स्वर्गकाम' इत्येवंरूपः । श्रनेन हि स्वर्गमुद्दिश्य
यागं विदधता स्वर्गकामस्य यागजन्य फलभोक्तृत्वं प्रतिपाद्यते ।
 
'यस्याहिताग्नेरग्निगृहान् दहेत् सोऽग्नये क्षामवते पुरोडाशमष्टा-
ऽपि तस्याकरणे प्रयोगविध्यवगतसाहित्यं बाध्येतेति श्रानुमानिकं नैरन्तयें बाधित्वाऽपि
पदार्थानुसमयस्यैवाश्रयणीयत्वात् । तदेतत्सर्वं मनसि निधायाह - श्रत इत्यादिना ।
 
षोडशक्ष खै रित्युपल क्षणमसम्बन्धिपदार्थान्तरीय क्षणानाम् । केषांचिश्चेति । चका-
रादल्पव्यवधानस्य ग्रहणम् । प्रवृत्तिक्रमनिरूपणमुपसंहरति-तदिति । पञ्चमाध्या यार्थभू
तप्रयोगविधिनिरूपणमुपसंहरति-तदेवमिति ।
 
(अधरविधिनिरूपणम् )
 
-
 
क्रमप्राप्तमधिकारविधि निरूपयति – फलस्वाम्येति । कीदृशमत्र फल स्वाभ्यमित्यत
-फलस्वाम्यं चेति । एवञ्च यो यत्फलममिलषति स तत्साधने यागादौ अधिक
रोतीति अधिकारबोधकत्वादस्य अधिकारविधित्वमित्यर्थः । स च अधिकारविधिश्च ।
स्वर्गमुद्दिश्येति । यद्यप्यत्र पुरुषविशेषणं स्वर्गकामशब्दः तमेवाभिधातुं शक्नोतीति
न स्वर्गस्योद्देश्यता प्रतीयते तथापि अस्वार्थे पुरुषस्य प्रवृत्त्यनुदयात् विधिबलेन भाव.
नायाः पुरुषार्थमाव्यकत्वे अवश्याभ्युपगते तद्विशेषाकाङ्क्षायां स्वर्गकामपदेन विशिष्टपला.
पेक्षिणः पुरुषस्य शेषित्वबोधनात् विशेष्यस्य आख्यातादेव प्राप्तत्वेन विशेषणभूतस्वर्गा-
दिमात्रपरं स्वर्गकामादिपदम्, प्रथमा च कर्मत्वपरेत्यभिसन्धायैवमभिहितम् । यागं
विद्यतेति । षष्ठाद्यन्यायेन स्वर्गे भाग्यत्वेनान्विते भावार्थाधिकरणन्यानेन धात्वर्थस्य
करणत्वेनान्वयस्य युक्तत्वादिति भावः ।
 
9
 
नन्वेवं सति नित्ये नैमित्तिके च पुंसः अधिकारी न स्यात् तत्र कर्मजन्य फलस्यै-
वाभावेन तद्भोक्तृत्वस्य दूरागस्तत्वात् । न च विश्वजिन्न्यायेन स्वर्गः, रात्रिसत्रन्यायेन
'धर्मेण पापमपनुदती' ति वाक्यशेषभत्रणात् पापक्षयो वा फळत्वेन कल्प्यतामिति
वाच्यम् । निमित्तफलयोः उभयोः एकस्मिन् वाक्ये उद्देश्यस्वाङ्गीकारे वाक्यभेदापत्तेः ।
उक्तं च - "निमित्तफल सम्बन्ध एकवाक्ये न युज्यते ।
 
NSTITU
 
उद्देश्यद्वय सम्बन्धे वाक्षभेदः प्रसज्यते" ॥ इति ।
 
Bhandarkar Oriental -
 
श्रत माह- यस्याहिताग्नेरिति । अयं भावः - भावनाय ॥ इष्टभाव्यकत्वस्वाभा-
FOUNDED
 
1917
 
॥ ॥