This page has not been fully proofread.

१००
 
मोमांसान्यायप्रकाशः
 
[ प्रवृत्तिक्रम-
यथा- प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्रांजापत्यैश्चरन्तीति
वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः, भत.
स्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां साहित्यं संपादनीयम् ।
 
तत्र प्राजापत्यानां संप्रतिपन्नदेवताकत्वे नै कस्मिन् कालेऽनुष्ठानादुप
पद्यते साहित्यम् । तदङ्गानां चैकस्मिन् कालेऽनुष्ठानमशक्यम् । न ह्यनेकेषां
पशनामुपाकरण मेकस्मिन् काले कतु शक्यम् । अतस्तेषां साहित्यमव्यव
धानेनानुष्टानात् संपाद्यम्-एकस्योपाकरणं कृत्वाऽपरस्योपाकरणमिति ।
अतः प्राजापत्येषु एकं पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र
प्रथमपदार्थानुष्ठानं कस्माश्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थों येन
क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्ठेयः प्रयोगविध्यवगतस्य मिथोऽ-
ङ्गसाहित्यस्योपपत्तये ।
 
प्रयोगविधिना हि दैते तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्य-
मानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम्,
 
-
 
स प्रवृत्तिक्रम इत्यर्थः । उदाहरति - प्राजापत्येष्विति । वाजपेये हि 'सप्तदश प्राजा.
पत्यान् पशूनालभते' इति वाक्येन प्रजापतिदेवताकाः सप्तदश पशव आग्नातास्ते.
ब्वित्यर्थः । तदेवोपपादयति-प्राजापत्या होति । सेतिकर्तव्यताका इति । भयमा-
शयः -- यत्र हि तृतीयांनिर्देशः तत्र तृतीयाप्रकृत्यर्थस्य करणस्वमवगम्यते, तच्च करणत्वं
फलजमकत्वरूपम्, तच्च न प्रधानमात्रस्य सम्भवतीत्यङ्गविशिष्टस्यैव तद्वाच्यम् । एवश्च
तत्र साङ्गस्य प्रधानस्य भावनाकरणत्वं, न तु प्रधानमात्रस्य, यथा - 'स्ववभृथेन
चरन्ति" "उच्चैः प्रवर्येणे" त्या दौ, तत्र साङ्ग एव अवभृथे श्रवपदेशविधानम्, साङ्ग
एव च प्रवर्ग्यं स्वरविधानम्, न तु यत्र द्वितीया निर्देशस्तत्र, । तत्र करणत्वस्याप्रतीयमानत्वेन
प्रधान मात्रस्यैवोद्देश्यत्वात्, यथा- "यज्ञाथर्वणं वै काम्या दृष्टयस्ता उपांशु कर्तव्या"
इत्यादौ, प्रकृतेऽपि तृतीयानिर्देशात् साङ्गेष्वेव पशुष द्वन्द्वोपात्तसाहित्यस्यान्वयो वक्तव्यः ।
एवञ्च प्रधानेष्विव श्रङ्गेष्वपि एककालानुष्ठेयत्वरूपं साहित्यं प्राप्तमिति तद्यद्यपि प्रधानाना-
मेकदेवताकत्वात् युगपदनुष्ठानं सम्भवति, श्रङ्गामां तु विभिन्नदेवताकत्वा देककालानुष्ठाना-
सम्भवेन अविलम्बापरपर्यायप्राशुभावे पर्यवस्यति । अतः तत्सिंध्यर्थं प्रथममङ्गमुपा करण-
रूपं यस्मिन् कस्मिंश्चित् पशावारभ्य केनचित् क्रमेणानुष्ठेयम् । द्वितीयं त्वङ्गं नियोजनं
यस्मिन् पशावुपाकरणमारभ्य येन क्रमेण कृतं तस्मिन्नेव पशो आरभ्य तेनैव क्रमेण
कर्तव्यमित्याह—तत्रेत्यादिना । सम्प्रतिपन्नदेवताकत्वेनेति । एकदेवताकत्वेने-
त्यर्थः । एकस्मिन् काले अनुष्ठानादिति । प्रयोगविधिना साङ्गानां प्रधानानां यौग
पञ्चबोधनात् यत्र विभिन्न देवताकस्थले तदसम्भवः तत्र क्रमापेक्षायां पाठादीनां क्रमनियाम•
करवेऽपि यत्रैक देवता कस्थले यौगपद्यसम्भवस्तत्र तन्त्रानुष्ठानस्यैव उचितत्वादिति भावः ।
'प्रजापतेर्जायमानाः' 'इमं पशुं पशुपते' इति मन्त्रद्वयेन बर्हिम्याँ लक्षशाखया च
पशोरुपस्पर्शनपूर्वकं देवतार्थस्वेन संकल्पनमुपाकरणम् । यूपे पशोर्बन्धनं नियोजनम् ।
1. प्राजापत्येषु उपाकरणादिप्राप्तिमुपपादयति-प्रयोगविधिनेति । तच्चेति । दक्षे
 
STITUT