This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्टीयते, तस्य दुर्बलत्वात्. । पाठ-
क्रमात्तु पश्चाद्नुष्ठोयते, तस्य प्रबलखादिति ।
 
स चायं मुख्यक्रमः प्रवृत्तिक्रमाइलवान् । प्रवृत्तिक्रमे ह्याश्रीयमाणे बहू-
नामङ्गानां प्रधानविप्रकर्षो भवति, अस्मिंस्तु माश्रीयमाणे सन्निकर्षः। तद्यथा-
दर्शपूर्णमासयोरादावाग्नेयानुष्ठानं, ततः सान्नाय्यस्य । तद्धर्माश्च केचित् पूर्व-
मनुष्ठीयन्ते । तत्र यदि प्रवृत्तिकममाश्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन, तत
आग्नेयधर्माः, तत आग्नेयानुष्ठानं, ततः सान्नाय्यानुष्ठानम्, तदा तद्धर्माणां
स्वप्रधानेन सह द्वाभ्यामाग्नेयधर्म तदनुष्टानाभ्यां विप्रकर्षः स्यात् ।
 
यदा तु सान्नाय्यधर्माणां केषाश्चित् पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्य-
क्रममाश्रित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठोयन्ते तदा सर्वेषा नाग्नेयधर्मसा-
नाय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवतिः - श्राग्नेयधर्माणां स्व.
प्रधानेन सह सान्नाथ्यधर्मेर्व्यवधानात्, सान्नय्यधर्माणां च स्वप्रधानेन
सहाग्नेयानुष्ठानेन व्यवधानात् इति न विप्रकर्षः । तस्मात् मुख्यक्रमः
प्रवृत्तिक्रमाद्बलवान् ॥
(प्रवृत्तिक्रमनिरूपणाम् )
 
सह प्रयुज्यमानेषु प्रथानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्तव्ये
'द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृित्तिक्रमः ।
 
पुरोडाश:, उपांशुयाजः श्राज्यहविष्कः, अग्नीषोमीयः पुरोडाशः, इति श्रीणि प्रधा.
नानि । तत्र आग्नेयाग्नीषोमीययोः पौर्वापर्य तु तदीययाज्यानुवाक्याक्रमादित्युक्तं पूर्वम् ।
उपांशुयाजध 'उपांशुयाज मन्तरा यजती'ति वाक्येन आग्नेयाभोषोमीययोर्मध्ये कर्तव्य-
तया विहित इति तेनैव क्रमेण तेऽनुष्ठीयन्ते । तत्र च तदङ्गभूतइ विर्निर्वााः, अग्नये
जुष्टं निर्वपाम्यग्नीषोमाभ्याम्' इत्यादिना विहिताः । एवं च अत्र मुख्यक्रमानुरोधेन
आग्नेयानन्तरमनीषोमीयात्पूर्व कर्तव्य आाज्यनिर्वापः, श्रथ वा पाठक्रमानुसारेण अन्त
एवेति सन्देहे मुख्यक्रमापेक्षया पाठक्रमस्य प्राबल्यात्तदनुसारेणान्त एवानुष्ठानमिति ।
 
-
 
F
 
एवं मुख्यक्रमस्य पाठक्रमापेक्षया दौर्बल्यं निरूप्य इदानीं तस्य प्रवृत्तिकमापेक्षया
प्राबल्यं निरूपयति - स चेति । प्रवृत्तिक्रमस्य दौर्बल्ये कारणमाह - प्रवृत्तीति । त
द्धर्माः सान्नाय्यधर्माः । केचिदिति । शाखाच्छेदनवरसापाकरणादय इत्यर्थः । पूर्वमि
ति। तेषां पूर्व पठितत्वेन पाठक्रमानुसारेण पूर्व मेवानुष्ठानस्य प्राप्तत्वादिति भावः ।
तद्धर्माणां सान्नाय्यधर्माणाम् ।
 
(प्रवृत्तिक्रमनिरूपणम् )
 
एवं मुख्यक्रमं निरूप्य प्रवृत्तिक्रमं निरूपयति - सहेति । युगपदनुष्ठीयमानेष्विस्य-
र्थः । सन्निपातिनामिति । सन्निपरोपकारकाणामित्यर्थः । यत्र बहूनां प्रधानाना मेकका.
लकर्तव्यता प्राप्ता तत्र तदङ्गानामपि सन्निपत्योपकारकाणां युगपदनुष्ठानं
प्राप्तम् तच्चाश-
क्यमित्येकैकस्मिन् प्रधानेऽङ्गावृत्त्यामवश्यं भाविन्यां तत्र यत्मघानमारभ्य येन क्रमेण प्रा.
थमिका ज्ञानुष्ठानं कृतं तेनैव क्रमेण तदेव प्रधानमारभ्य द्वितीयाज्ञानुष्ठानमिति यः क्रमः