This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[मुख्यक्रम -
 
आग्नेययागेन्द्रयागयोः पौर्वापर्यात् । अत्र हि द्वयोरभिघरणयोः स्वेन
स्वेन प्रधानेन तुल्यमेकान्तरितव्यवधानं भवति, आग्नेय हविरभिघारणा-
ग्नेययागयोः ऐन्द्रयागहविर भिधारणेन व्यवधानात् । ऐन्द्रयागहविरभिघा-
रणैन्द्रयागयोश्चाग्नेय यागेन व्यवधानात् । अतश्चादावाग्नेयह विरभिघारणम्,
तत ऐन्द्रस्य हविषः, तत आग्नेययागः, ततश्चेन्द्रो यागः, इत्येवंक्रमों मुख्य-
क्रमात् सिद्धो भवति ।
 
यदि तु मादावेन्द्रहविषोऽभिधारणं, तत आग्नेयस्य क्रियते, तदा याज्या-
नुवाक्याक्रमवशादादावाग्नेयस्यानुष्ठानादाग्नेययागतदङ्गह विरभिघारणयोर-
त्यन्तमव्यवधानम्, ऐन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात्,
तच्च न युक्तम् । श्रतो युक्तः प्रयाजशेषाभिघारणस्य मुख्यक्रमात् क्रम इति ॥
स चासौ मुख्यक्रमः पाठकमात् दुर्बलः । मुख्यक्रमो हि प्रमाणान्तर.
सापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बित (१) प्रतिपत्तिकः, पाठक्रमस्तु
निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् ।
 
11
 
अत एव आग्नेयोपशुयाजाग्नीषोमीयाणां क्रमेणानुष्ठीयमानानामप्यु-
OPPD D
 
६८
 
प्रयाजद्दोमानन्तरं श्रुतम् - प्रयाजशेषेण हवींष्यभिधारयतीति । तेन प्रयाजानिष्ट्वा
तच्छेषेण वेद्यामासादितानां प्रधानहविषामभिवारणं कर्तव्यतया प्राप्तम् । तत्र दर्शे तावत्
श्रीणि हवींषि – श्राग्नेयः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयश्चेति । तत्र त्रयाणां मध्ये प्रथमं
कस्य इविषोऽभिधारणमनन्तरं च कस्येत्या का ढक्षायामाग्नेयस्यैव प्रथममनुष्ठेयत्वेन तदन.
हविरभिघारणस्यैव प्रथममनुष्ठानम्, अनन्तरमेव दध्नः, दधियागस्य पश्चादनुष्ठीयमा-
नत्वात् । एवं च प्रयोग विध्यवगतस्य साहित्यस्यानुग्रहो भवतीति । प्रयोगविध्यवगतसा-
हित्यानुग्रह मेवोपपादयति
- अत्र होति ।
 
वैपरीत्येनानुष्ठाने बाघमाह- यदि विति। ननु आग्नेययागैन्द्रयागयोः पौर्वापयें
कि बीजम् ! अत आह-याज्यानुवाक्याक्रमवशादिति । तैत्तिरीयब्राह्मणे तृतीयाष्टके
पञ्चमप्रपाठ के सप्तमानुवाके "श्रग्निर्मूर्धा दिवः" "भुवो यज्ञस्य" इत्याग्ने यौ
याज्यानुवाक्ये ग्राम्नाय ततः प्राजापत्याग्नीषोमीयैन्द्राग्नयाज्यानुवाक्याः पठित्वा अनन्तरं
एन्द्र सानसि रयि" "प्र ससाहिषे" इत्यैन्द्रयौ याज्यानुवाक्ये नाते । एवं च
प्रथमतः श्राग्नेययाज्यानुवाक्ययोः अनन्तरमैन्द्रयाज्यानुवाक्ययोश्च पाठात्तत्क्रमानुसा.
रेणेत्यर्थः।
 
एवं मुख्यक्रमं निरूप्य तस्य पाठक्रमापेक्षया दौर्बल्यं निरूपयति - स चेति ।
प्रमाणान्तरेति । क्वचिद्द्ब्राह्मणपाठक्रमात् क्वचिच याज्यानुवाक्याक्रमादित्यर्थः । प्रमा
णान्तरसापेक्षेति । याज्यानुवाक्यापाठ। दिरूपप्रमाणान्तरसापेक्षः प्रधानक्रमः, तत्प्र-
तिपत्तिमपेक्षते चाज्ञानां क्रम इति विलम्बेन प्रतिपत्तियोग्य इत्यर्थः ।
 
अत एव मुख्यक्रमस्य पाठकमापेक्षया दौर्बल्यादेव। पौर्णमास्यां हि माग्नेयः
 
१. प्रवृत्तिकः ।
 
FOUNDED
 
1917
 
सांवाल
 
bhandarihar Oriental
Research Institute