This page has not been fully proofread.

baalauna policodenniall to tronige
श्रीः
 
द्वितीयसंस्करणभूमिका
 
भगवतः परमेष्ठिनः परमकृपया द्वितीयसंस्करणाय प्राप्तावसरोऽयं मीमांसान्यायप्र-
काशः सारविवेचिनीसंवलित इति महदिदं प्रमोदस्थानम् । सरस्वपि व्याख्यान्तरेषु बहुषु
सारविवेचिन्याः पुनर्मुद्रणावश्यकता जातेत्यनेनानुमीयते- विद्वद्वणश्छात्राश्च तस्यै स्पृह-
यन्ति विशेषत इति । प्रायः पञ्चषेभ्यो वासरेभ्यः प्रभृत्येव बिपण्यां सारविवेचिन्या दुष्प्रा.
पतां पुनश्च तन्मुद्रणाय छात्राणामभ्यर्थना श्वेतस्ततश्श्शृण्वन्तोऽपि वयं सामग्रीबिरहेण
भृशं क्लिश्यतो मुद्रणालयाध्यक्षानवलोकयन्तो जोषमास्महि । परमिदानीं परमेशकृपया
किञ्चिदिव लब्धसाधनचौखम्बामुद्रणालयाध्यक्षः अस्याः पुनर्मुद्रणाय कृतसन्नाहः तरसं•
शोधनकार्याय श्रीमतः ( व्याख्या न्) शास्त्रिपादानभ्यर्थयत् । शास्त्रिपादाभ बहुषु
कार्यान्तरेषु भृशं व्यावृततयाऽलब्घसमया अपि कथं कथमपि समयं संपाद्य व्याख्यामिमां
पुनस्संस्कृत्य परिवर्ध्य च क्वचित्कचिदावश्यकस्थलेषु, संशोधनकार्ये मां न्ययूयुजन् ।
 
A
 
तु तत्परमं भागधेयं मन्वानः प्रावतिषि संशोधनकार्ये । तत्र मूलपाठसंशोधनायाद्य
यावन्मुद्रिताः कोशा उपयोजिताः । तदतिरिक्तश्च कश्चन तालपत्रेषु प्रन्थाक्षरलिखितो
न्यायप्रकाशो यः शास्त्रिपार्वर्षेभ्य उपदशेभ्यः पूर्वं दक्षिणदेशेऽस्मद्ग्रामे करमाच्चित्प-
ण्डितगृहादुपलब्ध आसीत्सोऽप्युपयोजितः, यन्त्रस्था: पाठभेदाः सङ्गततमा आसन् ।
बहुत्र तान् युक्ततमान्मन्वानेन मया ते तत्र तत्र मूले समावेशिताः । टिप्पण्यपि क्वचि.
स्क्वचित् पूर्वसंस्करणापेक्षयाऽधिका संयोजिताऽऽवश्यकतां मत्वा । मूलव्याख्ययोरुद्घृतानां
विषयवाक्यानां सूच्यप्यन्ते निबद्धा । मन्ये साप्युपकाराय भवेन्मनीषिणामधीतिनां चेति ।
मीमांसा शब्दार्थी
 
ob
 
Jadi od Beored
 
el
 
इह तावत्सुखस्पृहयालूनां जनानां तदौपयिकसावनसंपिपादयिषा दुःखत्रात जिहा-
सूनां तदारम्भकसामग्री विमुखीभावश्च नितरामावश्यक इति निर्विवाद सिद्धमिदम् । तदर्थं
चं तदवबोधकप्रमाणान्वेषणे कृतयत्नाः, श्रन्यदेकान्तिकं किञ्चनापश्यन्तः प्रमाणम्,
अलौकिकं पुरुषबुद्धिदोषलेशासंस्पृष्ट मतिगभीरम नेकार्थंगर्भ कञ्चन शब्दराशिमेव प्रामा-
ण्याय शरणीकुर्वन्ति यो वेदश्रुत्याम्नाया दिशब्दरभिधीयते । तत्र च निगूढतत्वाव.
बोधक विचारमन्तरा श्रगतप्रतीतेऽर्थेऽविश्वसन्तः चारुतरं विचारं कञ्चन कामयन्ते
तदर्थनिर्णयाय । सैव च विचारचातुरी मीमांसापदेनाऽभिधीयते । मीमांसाशब्दो हि
"मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य" इति सूत्रेण सन्प्रत्यये अभ्यासे कारस्य दीर्घे च
कृते ततः श्रप्रत्यये टापि च कृते निष्पन्नः । तस्य च "मानेर्जिज्ञासायाम्" इति वार्ति-
कबलाज्जिज्ञासार्थकत्वे सिद्धेऽपि विचारलक्षकत्वं शास्त्रकृद्भिरङ्गीक्रियते । न केवलं सा-
धारणो विचारः, किन्तु पूजितविचारः । तथा हि भामस्यां वाचतिमिश्रा: "पूजित
विचारवचनो मीमांसाशब्दः । परमपुरुषार्थ हेतुभूतसूक्ष्मतमार्थनिर्णयफलता विचारस्य
पूजितता" इति । एवं च क्वचिदपि कार्येऽविचार्याप्रवृत्ति प्रेक्षावर्ता प्रपश्यन्ती तेषाम-
1917
 
ch inst