This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
तथा च सवनीयदेशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम्।
आश्विनग्रहणानन्तरं हि सवनीयदेशः । प्रकृतौ 'माश्विनं ग्रहं गृहीत्वा त्रिवृता
यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोती' त्याश्विनग्रहणानन्तरं तस्य विहि-
तत्वात् । तथा च साद्यस्क्रेऽप्याशिवनग्रहणे कृते सवनीय एवोपस्थितो भव-
तीति युक्तं तस्य स्थानात्प्रथम मनुष्ठानमितरयोश्च पश्चादित्युक्तम् ॥
 
(मुख्यक्रम निरूपणम्)
 
प्रधानक्रमेण योऽङ्गानां क्रम माश्रीयते स मुख्यक्रमः । येन हि क्रमेण
प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषाम-
ङ्गानां स्वैः प्रधानैस्तुल्यं व्यवधानं भवति, व्युत्क्रमेण वनुष्ठाने केषांचि
दङ्गानां स्वैः प्रधानैरत्यन्त मव्यवधानमन्येषामत्यन्तं व्यवधानं स्यात्, तच्चा-
युक्तम्, प्रयोगविध्यवगतसाहित्यबाघापत्तेः, अतः प्रधान मोऽप्यङ्गक्रमे हेतुः
श्रत एव प्रयाजशेषेणादावाग्नेयह विषोऽभिधारणं, पश्चादैन्द्रस्य दध्नः,
 
६७
 
-
 
एवं स्थानातिक्रमवैषम्यपरिहारार्थ सवनीयदेश एवानुष्ठानस्य कर्तव्यताप्राप्तौ तत्र
च प्रथमं सवनीयस्यैवोपस्थितत्वेन तस्यैव प्रथममनुष्ठानमित्याह-तथा चेति । सर्वेषा-
मिति । त्रयाणां पशूनामित्यर्थः । कोऽसौ सवनीयदेशः ? श्रत आह
- आश्विनेति ।
त्रिवृता त्रिगुणया रज्वा । परिवीय परितः संवेष्टय । इतरयोश्च पश्चादिति । तयो-
रपि मध्ये कस्य प्रथममनुष्ठानमिति चिन्तायां तत्र प्रकृतिदृष्टक्रमस्य परित्यागे प्रमाणाभा-
वेन प्रथमतोऽग्नीषोमीयस्य, अनन्तरमानुबन्ध्यस्येत्येवं क्रमो बोद्धव्यः । इदं सर्वं पञ्चमे
निरूपितमित्याह इत्युक्तमिति ॥
 
150 । There
 
( मुख्यक्रम निरूपणम् )
 
-
 
-
 
एवं स्थानक्रमं निरूप्यानन्तर प्राप्तं मुख्यक्रमं निरूपयितुमारभते- प्रधानेनेति ।
यत्रानेकप्रधानानि एकप्रयोग विधिपरिगृहीतान्येकदानुष्ठीयन्ते तदा तदङ्गानां तैरेव सहानुष्ठाने
कर्तव्ये कस्य प्रधानस्याज्ञानि प्रथमतोऽनुष्ठेयानि कस्य वा तदनन्तरमिति क्रमविशेषापेक्षा-
यां तत्र यस्य प्रधानस्य प्रथमनुष्ठानं तदशानि प्रथममनुष्ठेयानीत्येवं रूपो यः क्रमः स
मुख्यक्रम इत्यर्थः । एवं क्रमाश्रयणस्य प्रयोजनमाह - येन हीति । विपर्यये दोषमाइ-
ब्युत्क्रमेणेति । प्रथमप्रधानस्याङ्गानां पश्चादनुष्ठाने द्वितीयप्रधानाज्ञानां च प्रथममनुष्ठाने
कृत इत्यर्थः । कथमयुक्तत्वमत ग्राह- प्रयोगेति । प्रयोगविधिना हि अङ्गानां प्रघा-
नानां च युगपदनुष्ठेयत्वरूपसाहित्यबोधनात् तस्याशक्यानुष्ठानत्वेन ततः अविलम्बापर-
पर्यायासम्बन्धिपदार्थान्तराव्यवधानरूपप्राशुभाव पर्यवसानात् अनेक प्रधानस्थले च त
स्थापि संपादयितुमशक्यत्वेन तत्र 'येन नाव्यवधान' मिति न्यायॆन यावद्भिः पदार्थैरवश्यं
सोढव्यं व्यवधानं तावत एव व्यवधानस्य प्रयोगविधिनाभ्यनुज्ञातत्वात् व्युत्क्रमे पानुष्ठाने
क्वचिदधिकव्यवधानापच्या प्रयोगविधेस्तदंशे बाघापत्तिरित्यर्थः । श्रङ्गक्रमे हेतुरिति ।
अनेन मुख्यानां क्रम इव क्रमो मुख्यक्रम इति व्युत्पत्तिरपि सूचिता । ma
उदाहरण माह- प्रयाजशेषेरोति । श्रयमन्त्र विषयसंग्रहः- दर्शपूर्णमास प्रकरणे
१३ मी० म्या०
 
तिजस्त्रि
 
Research Institute
 
-
 

 
SIRUS
POONA