2023-02-15 04:03:38 by ambuda-bot
This page has not been fully proofread.
निकपयाम् ]
सारविवेचिनोव्याख्यासंवलितः
६५
तथा च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात् त.
स्क्रमो मन्त्रपाठादेव स्यात्, न तु ब्राह्मणपाठक्रमात् ।
न च मन्त्रपाठस्यान्याहशत्वात् प्रयाजक्रमो ब्राह्मणपाठक्रमादेवेति वाच्यम् ।
अन्याहशत्वे तस्यैव कमस्यानुष्ठानं स्यात्, मन्त्रकूमस्य बलीयस्त्वात् ।
(१) अभ्यासाधिकरणे च वार्तिककृता 'क्रमविनियुक्तैवलिङ्ग कमन्त्रवर्णे'
त्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तः । (२) नवमेऽपि तन्त्ररत्ने
'समिधः समिधोऽग्न आाज्यस्य व्यन्त्वि' त्यादिभिः क्रमप्रकरणप्राप्तैर्मन्त्रैर्देव
ताः गुणत्वेन समर्थन्त इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदनुपपत्तिः स्या
त् । तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमात् क्रम इति चेत्
उच्यते - सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रा न सन्त्येव, यथा
तूष्णीं विहितेषु कर्मसु-तेषां क्रमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोग-
समवेतार्थस्मारकत्वा (३)त् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवा-
क्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाहुरर्थवादचरणे दार्तिक-
काराः (४) 'प्रयाजादिवाक्यान्यर्थ समर्थ्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि
प्रयोज्यतां न प्रतिपद्यन्ते' इति ।
तस्मारसमन्त्रककर्मणां मन्त्रपाठकमात् क्रमः । अमन्त्रककर्मणां क्रमस्तु
ब्राह्मणपाठक्रमादेवेति दिक ।
Madinains
अभ्यासाधिकरण इति । समिधो यजति, तनूनपातं यजतीत्यादीनां अभ्यासात्
अनन्यपरविधिपुनःश्रवणरूपात् यन्न कर्ममेदो निरूप्यते द्वितीयद्वितीय द्वितीये तत्रेत्यर्थः ।
क्रमविनियुक्तेत्यादि । यथासंख्यपाठरूपस्थान प्रमाणेन विनियुक्ता ये एवंलिङ्गकाः समि-
दादिलिङ्गका मन्त्रवर्णाः तैर्देवतायाः समर्पयात् समिदादिपदानां तत्प्रख्यन्यायेन नामधेय-
त्वमिति प्रघट्टकार्थः । एवं च प्रयाजेषु मन्त्राभावकथनं न मनो रजयतीति भावः । गम-
कान्तरमप्याह-नवमेऽपीति । तद्नुपपत्तिरिति । अन्यादृशकमत्वे तदनुसारेणैव श्र.
नुष्ठानप्रसक्त्या तथैव देवताप्राप्तिसम्भवेन तद्विपरीतक्रमक ब्राह्मण पाठानुसारेण देवताप्रा-
प्स्यूसम्भावात्तामादाय तत्प्रख्यन्यायेन नामधेयत्वकथनं वार्त्तिककारीयं क्रभेण देवतासम-
पकथनं च तन्त्ररत्नकारीयमनुपपन्नं भवेदिस्यर्थः ।
एवमाक्षिप्य समाधत्ते-सत्यमिति । तेषामेवेति । स्मरणपूर्वकानुष्ठानस्यैव विहि
तत्वेन स्मृतेरवश्यप्राप्तत्वात् । ध्यानायुपायान्तरापेक्षया ब्राह्मणवाक्यानामन्तरङ्गत्वादिति
भावः । तर्हि किमर्थं प्रयाजोदाहरणम् ? अत श्राह- कृत्वा चिन्तयेति । प्रयाजेषु मन्त्रा-
भावं कृत्वा चिन्तयेदमुदाहरणमित्यर्थः । प्रयाजेषु ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मा-
रकत्वाभावे वार्तिकं प्रमाणयति - यथाङ्कुरित्यादिना । अर्थवाइचरण इति । मन्त्रा-
धिकरणपूर्वपक्ष इति शेषः । प्रयाजादिवाक्यानीति । अस्यार्थः- प्रयाजानूयाजादिवि-
घिवाक्यानि प्रयाजादीननुष्ठेयपदार्थान् विधाय तावतैव कृतार्थानि ऋतुप्रकरणाभ्यां तत्स्व-
रूपस्य संस्पर्शे सत्यपि प्रयोगकालोच्चार्यमाणत्वरूपमनुष्ठेयत्वं न लभन्त इति
-
darker Oriental
eard Instit
१, पू. मी. २. २.२.तं.वा. पू. ४५७. २ नवमे तन्त्र ० ३० करवम् ४.तं. वा. पू. ५१,
4
एवञ्च प्र.