This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
४२
 
मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद्वहिरेव 'इदमेवं कर्तव्य'
मित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्याप्रियते । मन्त्राः पुनरन-
न्यप्रयोजनाः प्रयोगसमवेतार्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्म-
रणकमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधोनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मा-
दिति बलवान् । अत एवाग्नेयाग्नीषोमीययोर्ब्राह्मण पाठादादावग्नीषोमीयानु-
ष्ठानं, पञ्चांदाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुष्ठानं,
पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् ॥
 
प्रयाजानां ( १) "समिधो यजति' तनूनपातं यजति' इत्येव' विधायकवा
क्यक्रमात् यः क्रमः स ब्राह्मणपाठकमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थ
विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तरस्याभावात् तान्येव स्मार-
कत्वेन स्वीक्रियन्ते । तथा च येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं
 
तस्य शान्ताकांक्षत्वादिति भावः । मन्त्राणामस्तु प्रयोगसमवेतार्थस्मारकत्वम् । तावता
प्रकृते किमायातम् ? श्रत - तेनेति । स्मरणक्रमाधीनत्वादिति । श्रज्ञातस्या-
स्मृतस्य वा अनुष्ठानासम्भवादिति भावः । तत्क्रमस्य स्मरणक्रमस्य । मन्त्रक्रमाधीनत्वा-
दिति । एवञ्च मन्त्रपाठक्रमानुरोधेन स्मरणम्, स्मरणानुरोधेनानुष्ठानमिति मन्त्रपाठस्या-
नुष्ठानौपयिकस्वात् तदनौपयिकात् ब्राह्मणपाठात् तस्य प्राबल्यमनुष्ठानविषये इत्याशयवा.
नाह – अन्तरङ्गो मन्त्रपाठ इत्यादि । तत्रोदाहरणमाह -आग्नेयेति । तैत्तिरीय-
संहितायां द्वितीयकाण्डे पञ्चमप्रपाठके द्वितीयेऽनुवाके "ताभ्यामेतमग्नीषोमोयमेका-
दशकपालं पूर्णमासे प्रायच्छत्" इत्यनेनाग्नीषोमीययागो विहितः । तत्रैव षष्ठप्रपाठ-
के तृतीयानुवाके "यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो
भवति" इत्याग्नेययागो विहितः । एवञ्च ब्राह्मणपाठक्रमादादावग्नीषोमीयानुष्ठानं पश्चा-
दाग्नेयानुष्ठानञ्च प्राप्तम्, तद्बाधित्वा मन्त्रपाठक्रमेणैव क्रम आश्रीयत इति ।
 
-
 
ब्राह्मण पाठक्रममुदाहरति - प्रयाजानामिति । समिधो यजतीति । अत्र समित्य-
दं तत्प्रख्यन्यायेन कर्मनामधेयम् । समिन्नामकेन यागेन ऋतूपकारं भावयेदिति वाक्या-
र्थः । अनेन वाक्येनैकमेव कर्म विधीयते । बहुवचनं तु 'समिधो अग्न आाज्यस्य व्यन्तु'
इति मन्त्रवर्णे समिद्देवतागतत्वेन बहुत्वस्य प्राप्तत्वात् बहुत्वसंख्या विशिष्टयागविधौ च
गौरवापत्तेः स्वाश्रयदेवत्ययागवृत्तित्वसम्बन्धेन एकत्वलक्षणार्थमिति ध्येयम् । एवं तनूनपा-
तादिवाक्येष्वपि द्रष्टव्यम् । ननु ब्राह्मणवाक्यानां प्रयोगाद्वहिरेव अर्थविधायकत्वेन चारि-
तार्थ्यस्य पूर्वमुकत्वात् तेषां प्रयोगकालसम्बन्धस्यैवाभावात् कथं तेषां तत्सम्बन्धिक्रमबो-
घकत्वमित्याशङ्कय परिहरति — अत्र च यद्यपीति । स्मारकान्तरस्याभावादिति ।
एवञ्च यत्र कर्माजभूतो मन्त्रः समस्ति तत्र मन्त्रपाठक्रमादेव क्रमः, यत्र व नास्ति, तत्र
ब्राह्मणपाठस्याप्यगत्या क्रमबोधकत्वमङ्गीकरणीयमिति भावः ।
 

 
ननु तैत्तिरीयशाखायां "समिधो अग्न आज्यस्य व्यन्तु" "तनूनपादन
श्राज्यस्य वेतु" इत्यादीनां प्रयाजयाज्यामन्त्राणां पाठात तेषां च प्रयोगकाले व्याप-
१. तै. स. २. १. १.१.
 
C
 
FOUNDED
1917