This page has not been fully proofread.

नरूपणम् ]
 
सारविवेविनोव्याख्यासंवलितः
 

 
एकप्रसरताभङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् ।
(श्रुतिप्राबल्यनिरूपणम् )
 
सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचनकल्पनद्वारा क्रमप्रमा.
णस्वात् । मत एवाश्विनस्य पाठक्रमातृतीयस्थाने ग्रहणप्रसको 'श्राश्विनो
दशमो गृह्यते' इति वचनादशमस्थाने ग्रहणमित्युक्तम् ॥
 
( अर्थक्रम निरूपणम्)
 
यत्र प्रयोजनवशेनार्थनिर्णयः स मार्थः क्रमः । यथाऽग्निहोत्र होमयवागू-
पाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते ।
 
भक्षानुवादेन क्रममात्रविधानमस्तु किं विशिष्टविधिनेत्यत श्राह-एकप्रसरतेति । एक.
प्रसरता सम्भूय विशिष्टार्थप्रतिपादकत्वं, तस्या भङ्ग इत्यर्थः । पदस्य ह्येकदा एक एव
व्यापारः उद्देश्यत्वेन विधेयत्वेन वा विशिष्टस्य शुद्धस्य वा स्वार्थस्य समर्पणम् । न द्वय
मध्येकदकस्य । तदिदानीं भज्येत । किञ्च अत्र भक्षानुवादेन प्राथम्यविधौ भक्षस्योद्देश्य-
त्वेन तस्य विधेयप्राथम्यान्वयात् पूर्व उद्देश्यत्त्वेन क्रियान्वयोऽभ्युपगन्तव्यः श्रतश्च
क्रियान्वयात् पूर्व भक्षप्राथम्ययोः विशेषणविशेष्यभावानवगमात् एकार्थीभावलक्षण-
सामर्थ्याभावात् समासो न स्यात्, अस्ति तु सः । अतश्च समासबलादुभयो सम्भू-
यैकार्थप्रतिपादकत्वं वक्तव्यम् । ततश्च विशिष्ठविधान एव पर्यवस्यतीति भावः ।
 
मि
 
( श्रुतिप्राबल्यनिरूपणम्) ।
 
एवं श्रुतिं निरूप्य तद्गतं क्रमबोधकेतरप्रमाणापेक्षया प्राबल्यं निरूपयति-
सेयमिति । इतरप्रमाणापेक्षयेति । क्रमबोषकार्थादिप्रमाणापेक्षयेत्यर्थः । तत्र कारण-
माह – वचनकल्पनद्वारेति । पाठादिस्थलेषु न प्रत्यक्षवचनमस्ति, येन क्रमो विधीयेत ।
पौर्वापर्यरूपेण पाठान्यथानुपपत्या' तु 'एतदनन्तरमेतस्कर्त्तव्य' मिति कल्पनीयं क्रमबो-
धकं वचनम् । यावश्च तैः कल्पयितुमारभ्यते ततः पूर्वमेव प्रत्यक्षेण क्लृतेन वचनेन क्रमे
बोधिते न तेषां प्रवृत्तिरिति दौर्बल्यं तेषामिति भावः । अत एव इतरापेक्षया प्राबल्या-
देव । श्राश्विनस्येति । अश्विदेवताकस्य ग्रहस्येत्यर्थः । पाठक्रमादिति । 'ऐन्द्रवा-
यवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाति' इति धारामदेषु तृतीयस्थाने
आश्विनमहविधायकवाक्यस्य पाठादिति भावः । यद्यप्यत्र प्रथमतः श्रुत्यर्थयोः प्राबल्य-
दौर्बल्यनिरूपणमेव कर्तुमुचितं तथापि यथाअत्येव प्रयोजनस्य कल्पनीयत्वेन तयोविरोध-
स्यैवासम्भवात् तत्सरित्यज्य श्रुतिपाठयोः प्राबल्यदौर्बल्योदाहरणमुक्त मिति वेदितव्यम् ।
यथा ह्युक्तम्-
ASTITUTE
 
श्रुत्यर्थयोर्विरोधस्तु नैवं वचनसम्भवे ।
 
यथाश्रुत्येव हि न्याय्यमर्थस्य परिकल्पनम् ॥ इति । इत्युक्तमिति पञ्चम-
चतुर्थप्रथम इति शेषः ।
 
FOUNDED
1917
 
॥ तेजस्वि
 
नावधीतमस्तु ॥
 
(अर्थक्रमनिरूपणम् )
 
Bhandarkar Oriental
 
Research Institute
 
श्रर्थक्रमं लक्ष्यति-यत्र स्विति । होमार्थत्वेनेति । यवाग्वाग्निहोत्रं जुद्दो-