This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
क्यतामापनः प्रधान विधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमा-
णाभावादविलम्बापरपर्यागं प्रयोग प्राशुभावं विधत्ते । न च विलम्बवद विलम्बे •
पि प्रमाणाभाव इति वाच्यम् । विलम्बे हि श्रृङ्गप्रधान विध्येकवाक्यता वग तत
त्साहित्यानुपपत्तिः प्रसज्येत । न हि विलस्बेन क्रियमाणयोः पदार्थयोः 'सह-
कृत' मिति साहित्यं व्यवहरन्ति ।
 
नचैवं साहित्यानुपपस्या समानकालत्वमेव स्यात्, न त्वविलम्बः, भव्य-
वधानेन पूर्वोत्तर कालक्रियमाणपदार्थयोः 'अबिलम्बेन कृत' मिति व्यवहारा
दिति वाच्यम् । मनेकपदार्थाना मेकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च ताव-
कर्तृसंपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । "तस्यैतस्य यशक्रतोश्चत्वा-
र ऋत्विज" इत्यादिना कर्तृणां नियतत्वात् ।
 
तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिः एकवाक्यतावगततत्साहि-
त्यं विदधत् उक्तविधया एककालानुष्ठानानुपपत्तेरविलम्बं विधत्ते इति सिद्धं
प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति ।
 
योगः अनुष्ठानं तस्य प्रांशुभावः शैव्यं असम्बन्धिपदार्थाव्यवधानरूपं तद्बोधको विधि-
रित्यर्थः । कोऽसौ प्रयोगविधिः १ श्रत ग्राह-स चेति । प्रधानविधिरेवेति । फलसम्ब-
न्धबोधकः यः प्रधानविधिः अधिकारविष्य परपर्यायः स एवेत्यर्थः । अनेन प्रधानोत्पत्ति-
विधीनां श्रृङ्गोत्पत्तिविधीनां वा नानुष्ठापकत्वमिति सूचितम् । विधेः प्राशुभावबोधकत्वमुप.
पादयति-स हीति । अानां प्रधानानां च एकेनैव प्रयोगविधिना विधानस्य, एकवि
घिविहितानामसति बाधके युगपदनुष्ठेयत्वरूप साहित्यविवक्षायाच एकादशे वक्ष्यमाणत्वात्
तस्यानुपपत्तिः प्रसज्येतेति भावः । विलम्बे हीति । स्वीक्रियमाण इति शेषः । यद्यपि
विलम्बनिषेधकं प्रातिस्विकं प्रमाणं नास्ति, तथापि प्रयोगविध्यवगतसाहित्यबलादेव
तद्वाघनमिति भावः ।
 
ननु प्रधानविधिना साहित्यस्यैव बोधनात् तस्य च एकक्षणवत्तित्वरूपस्वात् अज्ञप्र
घानयोरेकक्षणानुष्ठेयत्वमेवावगम्यत इति कथं विलम्बप्रातिरिति शङ्कते- न चैवमिति ।
समानकालत्वं एकक्षणानुष्ठानम्, स्यात् सिध्येत् । अनेकपदार्थेति । सर्वेषां पदा-
र्यानां एकक्षणानुष्ठानासम्भवात् बाधितं सत् साहित्यमविलम्बानुष्ठाने पर्यवस्यतीति भावः ।
तावत्कर्तृसंपादनेनेति। कर्तृपदं क्रयक्रीतस्विंग्परम् । इदश्च सम्भवदज्ञाभिप्रायम् ।
अवघातपेषणादीनां पूर्वापरकालभाविनां तावत्कर्तृसम्पादनेनापि युगपदनुष्ठानासम्भवात् ।
यशक्रतोरिति । क्रतुशब्दो मानसोपासनेऽपि वर्तते । स क्रतुं कुर्वीत, मनोमयः
प्राणशरीरः इत्यत्र क्रतुशब्देन ध्यान विधानात् । तद्वयावृत्तये यज्ञक्रतोरिति इति माधवः ।
कणां ऋत्विग्रूपाणाम् ।
 
POONA
 
तस्मात् उक्तप्रमाणेनोक्तयुक्त्या च । अङ्गवाक्यैकवाक्यतामापन इति । समिधो
यजति, बाज्यभागौ यजति, इत्यादिभिरङ्गविधायकवाक्यैः या
दिभिरूपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्ग भावयेत् इत्याकारिका तामापन्न इत्यर्थः ।
१२ मो० न्या०
 
जवनावधीतमस्तु ॥
 
समिदा-
ienta