2023-02-15 04:03:36 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ प्रयोगविधि-
तृतीये।
भारादुपकारकाणां तु स्वरूपेऽनुपयोगात् परमापूर्वार्थत्वम् । तत्रोत्पत्य-
पूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्निपत्योपकारकाणां पूर्वा-
ङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तत्स्थितावुपयोगः । परमापू-
वस्य तु साङ्गप्रधाना (१) नुष्ठानानन्तरमेवोत्पद्यमानत्वात् सर्वेषामारादुपकार-
कारणां तदुत्पत्तौ । प्रयोगबहिर्भूतस्य तु तस्य तत्स्थितावुपयोगः । यथा-बृह-
स्पतिसवस्य 'वाजपेयेनेष्टा बृहस्पतिसवेन यजेते' ति वाजपेयोचरकालमङ्ग-
त्वेन विहितस्य वाजपेयापूर्वस्थित बुपयोगः । तस्य प्रागेवोत्पन्नत्वादित्युक्तं
चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः-तदेवं निरू-
पितः संक्षेपतो विनियोगविधिः ॥
( प्रयोगविधिनिरूपणम् )
प्रयोगप्राशुभावबोधको विधिः प्रयोगबिधिः । स चाङ्गवाक्यैकवा.
डाशयागमात्रस्य । तदर्थत्वाभावात् पुरोडाशार्थत्वाभावात् । न च वाच्यमाज्यस्यापि
पुरोडाशोपस्तरणाभिघारणार्थत्वात्तदर्थत्वमस्त्येवेति तत्राप्यवघातप्राप्तिर्भवेदेवेति । प्रत्रा-
वघातादीनां प्रदेयतत्प्रकृतिद्रव्यसंस्कारकत्वेन विधानात् श्राज्यस्य प्रदेयसंस्कारोप-
युक्तत्वेऽपि प्रदेयत्वस्य प्रदेयप्रकृतित्वस्य वा प्रभावात्, विशेषतचायमय निरूपित-
स्तृतीये तेषामर्थाधिकरण इत्याह - तृतीये इति ।
स्वरूपे यागस्वरूपे । द्रव्यदेवतादिसम्बन्धमद्वारीकृत्य साक्षादेव तेषां विधानादिति
भावः । पूर्वाङ्गानामिति । प्रधानयागानुष्ठानतः पूर्वमनुष्ठीयमानानामवघातप्रोक्षणादीना-
मज्ञानामित्यर्थः । तदुत्पत्तौ उत्पत्यपूर्वोत्तौ । उत्तराङ्गानां प्रधानयागानन्तरमनुष्ठी-
यमानानां स्विष्टकृढिडाभक्षणादीनाम् । तत्स्थिताविति । उत्पत्यपूर्वस्य पूर्वमेवोत्पन्नत्वेन
तदुत्पत्तौ उपयोगासम्भवादिति भावः । सर्वेषामिति । पूर्वाङ्गानामुत्तराङ्गानाञ्चेत्यर्थः ।
तदुपत्तौ परमापूर्वोत्पत्तौ । सर्वेषामेवारादुपकारकाणां तदुपत्तावेवोपयोगः १ नेत्याह-
प्रयोगबहिर्भूतस्येति । श्रारादुपकारकस्येति शेषः । तत्स्थिताविति । साङ्गप्रयोग-
परिसमाप्तिसमनन्तरमेव तदीयपरमापूर्वस्योत्पत्यवश्यम्भावादिति भावः । एवं चोत्सत्यपू-
मुत्पन्नमप्युत्तराङ्गाननुष्ठाने, परमापूर्वमुत्सन्नमपि प्रयोगबहिर्भूताज्ञाननुष्ठाने च विपद्यते
इत्यङ्गविधानबलात् कल्पत इति हृदयम् । वाजपेयोत्तरकालमिति । इष्वति क्त्वाप्रत्य
येन साज्ञवाजपेयप्रयोगपरिसमाप्त्युत्तरकालिकत्वस्यैव बृहस्पतिसवे बोधनादिति भावः ।
चतुर्थ इति । तृतीयत्रयोदश इति शेषः । विनियोगविधिनिरूपणमुपसंहरति-तदेवमिति ।
(प्रयोगविधिनिरूपणम् )
एवं विनियोगविधिं निरूप्य क्रमप्राप्तं प्रयोग विधिनिरूपणमारभते-प्रयोगेति ।
अत्र विनियोगप्रयोगविधिनिरूपणयोः पौर्वापर्यकारणं पूर्वमेवोपपादितम् । प्रयोगेति । प्र.
॥ तेजस्विनावधीनमस्तु ।
१. प्रयोगानुष्ठान
POONA
Bhandarkar Oriental
Research Institute