2023-02-15 04:03:36 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
फलभावनायां यागस्यैष करणत्वादङ्गानां च करणानुग्राहकत्वात्तदर्थत्वे (१)
बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन (१) स्वापूर्वमेवोपस्थाप्यते, सन्निकर्षात् ।
दोक्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते, विप्रकर्षात् । मतो
न तत्प्रयुक्तत्वमङ्गानाम् ।
मत एव (२) श्रगन्म सुवः सुवरगन्म' इति मन्त्रो विकृतावूहितव्य इत्युक्तं
नवमे (३) 'फलदेवतयोश्चे' त्यत्र । फलप्रयुक्तत्वं तु सौर्यादिविकृतिषु स्वर्ग-
रूपफलाभावात् मन्त्रो न प्रवर्तत' नतरां चोहितव्यः स्यादिति । तत्सिद्धम-
ङ्गानामन्य प्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्तत्वम् ।
-
तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसंस्कारद्वारा यागस्वरूपे
उपयोगा दुत्पत्स्यपूर्वार्थस्वम् । अत एवौषधधर्माणामवघातादीनामाज्ये न प्रवू.
त्तिः, तेषामाग्नेयापूर्वप्रयुक्तत्वात्, माज्यस्य च तदर्थत्वाभावादित्युक्तं
पूर्वार्थस्वमेव भवितुमर्हति, न साक्षात् फलार्थत्वमिति समाधत्ते - फलभावनायामिति ।
करणानुग्राहकत्वादिति । करण निष्ठफलजनना नुकूल योग्यता घायकत्वादित्यर्थः । तद्
थंत्वे करणीभूतयागार्थध्वे । तत्र यागस्वरूपे । अनर्थकाप्रसक्ताविति । देवतोद्देश्य
कद्रव्यत्यागमात्रस्य यागस्यैतादृशाङ्गकलापमन्तरेणाप्युत्पद्यमानत्वेन तत्राङ्गानामुपयो-
गाभावादिति भावः । स्वापूर्वमिति । साक्षात्परम्परासाधारण्येन स्वजन्यमुस्पत्यपूर्व
परमापूर्व चेत्यर्थः । एवश्च स्वजन्यापूर्वत्वेन रूपेणापूर्वस्योपस्थितिरभ्युपगम्यते । तच्चा-
पूर्वं सन्निपत्योपकारकस्थले उत्पत्यपूर्वम्, श्रारादुपकारकस्थले च परमापूर्वमिति विवे
तव्यम् । तत्प्रयुक्तत्वं फलप्रयुक्तत्वम् ।
अतएव फलप्रयुक्तत्वामावादेव । श्रगन्मेति । मन्त्रोऽयं दर्शपूर्णमासप्रकरणे यज-
मानकाण्डे श्राग्नातो यजमानेन पठनीयः । वयं स्वर्ग प्राप्तवन्त इति तदर्थः । आदराथ
द्विर्वचनम् । अस्य च फलप्रयुक्तत्वमुतापूर्वप्रयुक्तत्वमिति संदिह्य फलस्वरूपप्रयुक्तत्वे ताह.
शस्वर्गरूपफलस्य सौर्ययागेऽभावात् स्वर्गप्रकाशनरूपद्वाराभावेन श्रुतिदेश एव न स्यात् ।
कः प्रसङ्ग ऊहस्य; तस्य प्रतिदिष्टपदार्थविषयकत्वात् । श्रुतश्चापूर्वप्रयुक्तत्वमेव वक्तव्यम् ।
तदानों च श्रपूर्वस्य तत्रापि सत्वात् सिद्धयत्यूह इत्युक्तं नवमप्रथमतृतीये । तदेतदाह-
अगन्मेत्यादिना । ऊहितव्य इति । अगन्मसुव इत्यत्र सुवः इति स्थाने ब्रह्मवर्च-
सादिपदप्रक्षेपेण मन्त्रः पठनीयः इत्यर्थः । तदधिकरणपूर्वपक्षसूत्रमिदं फलदेवतयो-
श्चेति । फलस्य स्वर्गादेः देवताया अग्न्यादेश्य प्रयोजकत्वं स्यादिति तदर्थः ।
एवमङ्गजातं द्विविधमपि निरूप्य सिद्धरूपाणामुत्पत्यपूर्वार्थत्वस्य सिद्धतया तत्र
चक्तव्यविशेषं कश्चिदपश्यन् क्रियारूपेषु नेष्वेकैकस्याप्यङ्गजातस्य प्रयोजनं कथयति-तत्रा-
पीति । सन्निपत्योपकारकारादुपकारकाङ्गजातयोर्मध्य इत्यर्थ: । द्रव्यसंस्कारकत्वं अन-
घातप्रोक्षणादीनाम् । देवतासंस्कारकत्वं देवतावाहनपशुपुरोडाशयागीयोद्देशांशादीना.
मिति विवेकः। श्रौषधधर्मेति । ओषधिप्रभवत्रीह्यादिधर्मेत्यर्थः । श्राग्नेयापूर्वेति ।
यजन्योत्पत्यपूर्वेत्यर्थः । तेवघातादीनाम् । श्राग्नेयेत्युपलक्षणं प्रकृतपुरो-
२. तेन चे यागन. ३. तै. सं. १-५-६-१.
१. सिद्धे.
Bhandarkar Oriental
Research Institute
४. जे. सू. २-१-४.