This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
६३
 
उपयुक्तसंस्कारार्थं च (१) कर्म उपयोदयमाणसंस्कारार्थात् दुर्बलम्, उप-
युक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात् । अत एव 'प्रायणीयनिष्कास उदयनी-
यमभिनिर्वपतो' त्यत्र निष्कासस्य निर्वापार्थत्वम्, न तु तस्य तदर्थत्वम्,
निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे ।
 
तच्च सन्निपत्योपकारकमारादुपकारकाद्वतीयः । नन्ववघातादि भवतु
आकरता, तन्निवर्त्तकमित्यर्थः । पुरोडाशादिर्हि प्रधानयागाद्यर्थमुत्पादितो निर्वृत्ते
यागे निर्वृत्तप्रयोजनः श्रवशिष्टांशे कार्यान्तरमपेक्षमाणः उपरितन कार्योपयुक्तं स्थानं
व्याप्नुवन् किमस्यावशिष्टस्थ कार्यमिति मनो वा विक्षिप्तं कुर्वन् तिष्ठति, तस्य हि
कार्यान्तरे इडाभक्षणादौ विहिते स विक्षेपो निवर्त्तते इति ।
 
उपयुक्तसंस्कारार्थं च कर्मेति । यदुपयुक्तं पुरोडाशादिकं संस्करोति तत्कर्मेत्यर्थः।
उपयोदय माणसंस्कारार्थादिति । कर्मण इति शेषः । क्वचित् पुस्तकेषु कर्मपदं नास्ति ।
तदा एवं व्याख्यातव्यं दृष्टान्तानुरोधेन च । उपयुक्तसंस्कारार्थं चेति । उपयुक्तसं
स्कारार्थत्वमित्यर्थः । एव मुत्तरत्रापि संस्कारार्थादिस्यस्य संस्कारार्थत्वादित्यर्थः । एवं
च सन्निपश्योपकारकनिष्ठं यदुपयुक्त संस्कारार्थत्वं तस्य तन्निष्ठोपयोक्ष्यमाण संस्कारार्थत्वापे-
क्षया दौर्बल्यमिति फलितम् । भावप्रधान निर्देशमाश्रित्यार्थान्तपदयोरेवमेवार्थो वर्णनीयः,
अन्यथा दृष्टान्तासङ्गतेः । अत एव उपयोक्ष्यमाणसंस्कारार्थत्वापेक्षया उपयुक्तसंस्कारा-
र्थत्वस्य दौर्बल्यादेव । प्रायणोयनिष्कास इति । स्तो ज्योतिष्टोमे प्रायणीयोदयनीय-
संज्ञकाविष्टिविशेषौ । तत्र द्वितीय दिनानुष्ठेयप्रायणीयार्थश्चरुः यस्मिन् पक्कः तत्पात्रीप्रक्षा•
लनजल सावशेषलेपं तथैव स्थापयित्वा तस्मिन्नेव जले अवभृथानन्तरं कर्त्तव्याया उद-
यनीयेष्टेः चरुनिर्वापणं कार्यमिति विषयवाक्यार्थः । अत्र यः प्रायणीय निष्कासाधिकर-
एक उदयनीयचरु निर्वापः स प्रायणीयहविस्संस्कारकः ? उतोदयनीयह विस्संस्कारकः १
इति संदिह्य प्रायणीयनिष्कासस्य कृतार्थस्य प्रतिपत्तिसाकाङ्क्षस्येयं प्रतिपत्तिरुपदिश्यत इति
पूर्वपक्षयित्वा उपयुक्तसंस्कारस्वापेक्षया उपयोक्ष्यमाणसंस्कारत्वस्य प्राबल्यात् निर्वापार्थ-
त्वमेव निष्कासस्य इति राद्धान्तः कृतः । (२) तस्य निर्वापस्य । तदर्थत्वं निष्कासार्थ-
त्वम् । तत्र कारणमाह- उपयुक्तत्वादिति । एकादश इति । द्वितीय चरणान्स्य
इति शेषः ।
CA
 
तश्चेति । त्रिविधमपीत्यर्थः । ननु नसन्निपत्योपकारकस्य तत्त्वेन प्राबल्यम्, आरा
दुपकारकस्य वान स्वरूपतो दौर्बल्यम्, किन्तु तयोः दृष्टफलजनकत्वतदजनकत्व कृते
प्राबल्यदौर्बल्ये वक्तव्ये। तथा च दृष्टार्थानां सन्निपत्योपकारका णामदृष्टार्थारादुपकारका.
पेक्षया प्राबल्ये सिद्धेऽपि नादृष्टार्थ सन्निपत्योपकारकाणामारादुपकारकापेक्षया प्राबल्यं
 
१. क्वचिद् कर्मेति नास्ति ।
 
JEZ
 
२. यत्वत्र महामहोपाध्यायश्री वासुदेवाभ्यकरशास्त्रिमहोदयैः प्रभाख्य एतव्याख्याने चातुर्मा.
स्ये वरुणप्रधासे कर्मणि प्रायणीयनाम के दिवसे आमिक्षापात्र यवपिष्टमय मेषमवदाय हुत्वा भाण्डलिप्तो
य श्रामिक्षावशेषः तन्त्रोदयनीयनिर्वापः श्रतः । उदयनीयश्चान्तिमो दिवसः इत्याचक्तम्, तत् सर्वमभि
त्तिचित्रायितम् । न हि वरुणप्रघासे प्रायणीयोदयनीयौ स्तः । न वा तत्रामिक्षावशेष उदयनीय निर्वाप-
अतः । प्रायणीयोदयनीययोज्योतिष्टोम एव विधानात्' अतोनिर्मूलमेवेदं कथनम् ।
 
Research Institute
 
rka