This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ समाख्या-
(समाख्यानिरूपणम् )
 
समाख्या यौगिकः शब्दः । सा च द्विविधा-वैदिकी लौकिकी चेति ।
तंत्र होतुः चमसभक्षणाङ्गत्वं 'होतृचमस' इति वैदिक्या समाख्यया । श्रध्व
यस्तत्तत्पदार्थाङ्गत्वं लौकिक्या 'आध्वर्यव'मितिस माख्ययेति संक्षेपः ।
तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि ।
ति। वैदिकी। वेदे श्रुता । लौकिकी याशिकसम्प्रदायसिद्धा ।
श्रुत्यादिनिरूपणमुपसंहरति - तदेवमिति ॥
 
-
 
एवं श्रुत्योर्विरोधे-ऐन्द्रीमन्त्रस्यैव तद्धितश्रुत्या प्राप्तमिन्द्राङ्गत्वं बाधित्वा तृती-
याश्रुत्या प्रबलया गाईपत्याङ्गत्वम् ।
 
लिङ्गयोर्विरोधे– मुख्यसामर्थ्येन गौणसामर्थ्यस्य बाघः, यथा- 'बर्हिर्देवसदनं
दामी' त्यत्रैव गौणसामर्थ्यप्रासमुल पराजिलवनानत्वं बाधित्वा मुख्यसामथ्र्येंन बर्हिल-
वनाङ्गत्वम् ।
 
वाक्ययोर्विरोधे- ''सरा वा एषा यशस्य । 'तस्मात् यत्किञ्चित्प्राचीनम
ग्नोषोमीयात् तेनोपांशु चरन्ति' इत्यत्रोपांशुत्वस्य व्यवहितयज्ञपदसम्बन्धरूपं वाक्यं
बाधित्वा सन्निहितयत्किञ्चिरपद सम्बन्धरूपात् वाक्यात् भागधर्मत्वम् ।
 
क्रमयोर्विरोधे-काम्येष्टिकाण्डपठितयोर्द्वयोर्याज्ययोरिन्द्राग्नि देवतयोरसन्निधाना-
विशेषादैन्द्राग्नद्वयाङ्गत्वमनियमेन प्राप्स्यमानं बाधित्वा यथासंख्यपाठात् प्रथमस्य प्रथ
माङ्गत्वम्, द्वितीयस्य द्वितीयाङ्गत्वम् ।
 
समाख्ययोर्विरोधे- श्राध्वर्यवमिति सामान्यसमाख्यां बाधित्वा याजमान मिति
विशेष समाख्यया याजमानेषु पदार्थेषु यजमानकर्तृत्वम् ।
 
एवं श्रुतिवाक्ययोर्विरोधे- श्रारुण्यस्य वाक्यादेकहायन्यङ्गत्वं प्राप्स्यमानं
बाधित्वा तृतीयाश्रुत्या क्रयाङ्गत्वम् । 50
 
1135
 
श्रुतिप्रकरणयोर्विरोधे- 'एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्य' इत्यादीनां
स[मिधेन्यनुवचनानां प्रकरणाद्दर्शपूर्णमासाङ्गत्वं बाधित्वा षष्ठीश्रुत्या प्रतिष्ठादिरूपफलार्थत्वम्॥
श्रुतिक्रम योर्विरोधे-रशनाधर्माणां त्रिवृत्त्वदर्भमयीत्वादीनां क्रमादग्नीषोमीया-
सत्वं बाधित्वा श्रुत्या यूपाजत्वम् ॥
 
IPRE TH
 
श्रुतिसमाख्ययोर्विरोधे- पौरोडा शिकमिति समाख्याते दर्शपूर्णमासकाण्डे पठि
तानां 'इषे त्वे'त्यादीनां समाख्यया पुरोडाशाङ्गत्वं बाधित्वा 'इषे त्वेति शाखां छिन-
त्ति' इतीतिकरणरूपया श्रुत्या शाखाछेदनाङ्गत्वम् ॥
 
-
 
-
 
एवं लिङ्गप्रकरणयोर्विरोधे- पूषानुमन्त्रणमन्त्रणां प्रकरणात् दर्शपूर्णमासयागा-
जत्वं बाघित्वा लिङ्गात् पूषयागाङ्गत्वम् ॥
 
NSTITUR
 
POONA
 
1917
 
लिङ्गस्थान योर्विरोधे- ज्योतिष्टोंमप्रकरणे भक्षावांन्तरप्रकरणे भुतयोः भक्षणा-
र्थानुज्ञापनानुज्ञार्थयोर्मन्त्रयोः 'उपहूत उपयस्वे' स्यनयोः क्रमात प्रथमस्यानुशापना.
र्थत्वे द्वितीयस्य चानुज्ञार्थत्वे प्राप्ते तद्बाधित्वा लिशात् द्वितीयस्यानुज्ञापने प्रथमस्य
चानुज्ञायां विनियोगः ॥
 
kar
 
rch