This page has not been fully proofread.

[८२]
 
महानाटकम् ।
 
मगृहे विरम राम मुहमै पुच्यते पुनरसी चितिपाल: ।
आश्रयन्ति परिष्टत्तिमकमहुदस्य जरतश्च वचसि १५ ॥
अनावसरे पौरा: प्राडुः ।
 
अभिनवगुणग्रामे रामे विमुञ्चति पत्तनं,
तरुणकरुणापारावारे निमज्जति सज्जने ।
अचलदचलैरुर्षो, परं न तु केकयो,
 
कुलिशवड़िभप्रायं प्रायो मनो वत: योषिताम् ॥ १६ ॥
 
नोतिकुशल । राम दक्षिणाशां याम्यां दिशं मा गच्छ न
याहोत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १४ ॥
 
मदुग्गृहे इति । हे राम मदुग्गृहे मदालये मुहू

कियन्तं कालमित्यर्थः, विरम विलम्बं कुरु इत्यर्थः । असो
क्षितिपाल: राजा पुन: पृच्यते, अस्माभिरामो वनं गच्छतु न
वा इति शेषः । कि सेनेस्याह आश्रयन्तीति । दुर्मदस्य मदमत्तस्य
जरत सविरस्य च वचासि अकस्मात् सहसा परिवृत्तिम्
अन्यथात्वमित्यर्थ, आश्रयन्ति परिणमन्ति। "यदि पुनः राजा रामं
बनवासात् निवर्त्य राज्यमर्पयेदिति भावः । अत्र सामान्येन
विशेषसमर्थनरूपोऽर्थान्तरन्यास, प्रस्तुता प्रस्तुतयोर्जरहुर्मदयो
ने
कधम्म सम्बन्धात् दोपकालङ्कारथ तदनयोः संसृष्टि, "अप्रस्तुत
प्रस्तुतयोर्दोपकन्तु निगद्यते" इति लक्ष्गात् । स्वागता वृत्तं,
"खागता रनभगेर्गुरुणा च" इति लक्षणात् ॥ १५ ॥
 
अभिनवेति । अभिनव नूतन गुणग्राम: गुणममूहः
यस्य तथोते रामे पत्तनं नगरं विमुञ्चति अत एव सज्जने साधु
जनसमूह तरुण अभिनवा या कणा मोकः तस्याः पारा-
: -
वारः समुद्रः तस्मिन् निमज्जति निपतति सति उव्व पृथिवी