This page has not been fully proofread.

तृतीयोऽधः ।
 
कैकेयो वाचमूचे
 
निखिलनिजकुलागारमूर्त्तिः
 
ससीतः
 
शन्त्यैि पुत्रस्य राज्यं भवतु वनमभिप्रेयतामेष रामः ॥ ८ ॥
 
दशरथः । सकरुणं स्त्रोवचनस्वोकरणं मरणोत्साहव
नाटयन् महती मूर्च्छामासाद्य धरणितलमुपगतः कथमपि
चेतनामुपलभ्य ।
 
रामं कामाग्रजमिव वनं प्रस्थितं वीच्य शक्तो
 
धर्त्तु प्राणान् शिव शिव कथं तान् विहायाथवाहम् ।
निर्मुक्तः स्यां वचनमनृतं तत् पुनर्नान्यथा मे
 
भूयात् भूयस्तदनु वचनं हा बभाषे तथेति ॥ ८ ॥
 
[2]
 
तानिति । अथानन्तरं निखिलं समस्तं निजकुलं निज
वंश, केकयराजवंश इत्यर्थ, तस्य श्रद्वारा मालिन्धकरी मूर्त्ति-
र्यस्याः सा कैकेयी तान् उत्पातान् पूर्वोक्तान् अमङ्गलसूचकान्
धूसर दिग्भागान) अवेच्य दृष्ट्वा दशस्यन्दनं दशरथं क्षितिपं
राजानं क्रन्दयन्ती रोदयन्ती शिव शिवेति खेदे लोकान् जनान्
शोकानलोवै. रामदशरथवियोगजनितटु खाग्निसञ्चयैः भस्म
मात् कुर्वतीव दहन्तोव याचम् उवाच शान्त्यै पूर्वोक्तामङ्गल
शान्त्यर्थं ससोत एप रामः वनम् अभिप्रेष्यत पुत्रस्य भरत
स्थेति शेष, राज्य भवतु । स्रग्धरा वृत्तम् ॥ ८ ॥
 
राममिति । कामाग्रजमिव मदनाग्रजन्मानमिव, वासा
दपि श्रेष्ठं सुन्दरमिति भाव, रामं वनं प्रस्थितं वोच्य प्राणान्
धर्त्तु' कथम् अहं शक्तः १ नैव मध्यामोत्यर्थः, शिव शिवेति खेरे,
अथवा तान् प्राणान् विहाय निर्मुक्त: अनृतात् परित्रातः स्याम्
 
अतः तत् मे वचनम् अमृतम् अमत्यम् अत एव अन्यथा अन्य
प्रकारं न भूयात् न भवतु, तदनु इत्यं विवेचनानन्तरं हा