This page has not been fully proofread.

तृतीयोऽऽः ।
 
मध्याह्ने ध्वाइघोषः, वगणरुतमतिस्फीतफेरु प्रचारो
वारं वारं गभीर प्रलय इव महाकालचीत्कारघोषः ॥ २ ॥
अत्रान्तरे दशरथस्य चेष्टा ।
 
रामे नयचयं दृष्ट्वा लोकधम्म सहञ्च यत्
यौवराज्याभिषेकाय नृपे मतिरभूततः ॥ ३
 
[८५]
 
अभूत्, अहनि दिवसे बहुतरा: बहुसंख्या: स्फारतारा: प्रानि
नचवाणि स्फुरन्ति प्रकटतां गच्छन्ति, असमये प्रमावस्यादि-
व्यतिरिक्तकाले इति यावत् स्वर्भानो: राहो: भानवीयं सौरं
ग्रहणं ग्रासः, शैधिरो रुधिरमयो गक्रस्य दृष्टिः, विन्दुष्टष्टिरिति
पाठान्तरम् । मध्याहे ध्वाहाणां काकानां घोषः शब्दः, श्वगणानां
सारमेयाणां रुतं रवः मध्यान्हे ध्वाइवोप: खगणस्तमित्यव
मध्याहोङ्क्षस्य कागग्वगणरुतमिति पाठे मध्याहे कई ऊर्द्धगतः
आस्यकोश: मुखसम्पुटः यस्य तथाभूतः खगणः सारमेयकुलं
तस्य रुतं रव इत्यर्थः, अतिस्फीतानाम् अतिप्रवृद्धानां फेरुपां
शृगालानां प्रचारः सर्वतः सञ्चारः, वारं वारं पुनः पुनः
गभोर: भीषणः प्रलय इव कल्पान्तकाल इव महाकालस्य
सहारियो रुद्रस्य चोकारघोष: इसारध्वनिः, प्रभूदिति सर्वत्र
योन्यम् । स्रग्धरा वृत्तम् ॥ २ ॥
 
रामे इति । ततः उत्पातदर्शनानन्तरं रामे नयचयं राज-
नोतिसामग्री लोकधम्मसहं लोकाचारानुमतं धम्मसहितच यत्,
वृत्तं तदिति शेष: दृष्ट्वा स्थिते नृपे राजनि दशरथे यौवराज्ये
अभिषेक: तस्मै, रामस्येति शेषः, मतिः वुद्दिः, प्रभूत् प्रासीत् ।
अनुष्टुप् वृत्तम् ॥ ३ ॥