This page has not been fully proofread.

[८४]
 
महानाटकम् ।
 
धत्तेऽकस्मादिवखान् मलिनकिरणता हा महोत्पातहेतोः
उल्कादण्ड प्रचण्ड प्रपतति नभसः, कम्पते भूतधावी ॥ १ ॥
दिग्भागो धूमरोऽभूत् ग्रहनि बहुतरा स्फारतारा: स्फुरन्ति,
स्वर्भानोर्भानवीयं ग्रहणमसमये, रौधिरो शक्रष्टि ।
 
द्वितीया ।
कतिपय समयमिति पाठान्तरं, सुरम्यान् भुज्यन्ते
इति भोगा. सुखानीत्यर्थ तान्, सुरम्यानित्यव सुरङ्गानिति
पाठे स एवार्थ, भुक्का सम्भुज्य, भोगानाञ्चाष्ट विधत्वमुक्त यथा
 
सुगन्धि वनिता वल गोव ताम्बूजभाजनम् । वाहनं भूषण
चेति भोगाष्टकमुदोरितम् ॥ इति । केचित्तु राघवा दशरथ. धम्म
साई वर्धिष्णुकाम अपूर्णविषयाभिलाष इति व्याचक्षते ।
श्रवणमुनिपितु यज्ञदत्तनास्त्रो वैश्यतपस्विन शापकालं
प्राप, हा इति खेदे । एकदा मृगया गतो राजा दशरथ वनगज-
भ्रमेण निशि शब्दवेधिना शरेण जलकलसं पूरयन्तं यज्ञसुतं
श्रवणाख्यमुनिम् अव जवान । अथास्य पित्रा यज्ञदत्तेन
प्रप्त -'त्वमपि अस्यामेव अवस्थायामहमिव पुत्रशोकात्
परलोकं गमिष्यति' इति रामायण कथा । अवान्तर दुर्निमित्ता
न्यासन् इत्याह, धत्ते इति । - विवखान् सूर्य अकस्मात्
-
सहसा मलिनकिरणता मलिनप्रभतां धत्ते दधारेत्यर्थ, भूतायें
तमयो: ।
हा विषादे ।
धत्तेऽकस्मादित्यव
 
धत्ते तस्मिन् इति पाढे तस्मिन् तत्र समये इत्यर्थ., महान्
उत्पात अमङ्गल तस्य हैतो. प्रचण्ड भोषण, उल्कादण्ड.
दण्डाक्कति अग्निशिखा विशेष नभस. आकाशात् प्रपतति,
भूतधात्री पृथ्वी कम्पते । स्रग्धरा वृतम् ॥ १ ॥
 
दिग्भाग इति । दिशा भाग: दिग्भाग, धूसरः रजस्खलः