This page has not been fully proofread.

[33]
 
द्वितीयोऽङ्कः ।
 
अहह ! न हि न होति व्याजमप्यालपन्तो
स्मितमधुरकटाचैर्भावमाविष्करोति ॥ ५३ ॥
श्रोरामः सानन्दं जानकीवाग्विलासमुल्लासयति ।
वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्च-
तन्त्रीमातमम्वररणनशतोहारवाराचरेगा ।
प्रत्यग्रोविट्ना कद्रुमकुसुमनवामोद संमो (वा) दमैत्री-
पावीभूतेन धावीं युवतयति चिरस्थाविरां रामराजो ॥ ५४ ॥
 
माकाइतीत्यर्थ., बालभावात् मौग्धात् बिभेति च त्रस्यति च ।
अमाकुञ्चयन्ती संतृगवन्ती अपि सुरतसङ्गे मिलति सजति,
अहह ! न हि न हि इति व्याजं कपटनिषेधमिति भावः,
 
पन्ती जल्पती अपि स्मितेन मन्दहासेन मधुरा: मनो-
हारिण: कटाक्षा: अपाङ्गविलोकितानि तैः भावं मानसं रागम्
आविष्करोति प्रकटयति । मालिनी वृत्तम् ॥ ५३ ॥