This page has not been fully proofread.

[६]
 
महानाटकम् ।
 
कल्याणानां निदानं कन्निमलमयनं जोवनं सज्जनानां,
पायेयं यन्ममुतो: मपदि परपदमाप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवश्वसां पावनं पावनानां,
वीजं धर्मद्रमाणां प्रभवतु भवतां भूतये रामनाम ॥ ८ ॥
 
लोकरञ्जन इत्यर्थ, रघुवंश एव समुद्रः तस्य चन्द्रः तमम्बुद्धिः,
चन्द्रो यथा समुद्रादुत्पन्न तथा अयं रघवंशादुत्पन्न इति भावः ।
हे मोतामन कुमुदचन्द्र । सीतायाः मनश्चित्तमेव कुमुदं तस्व चन्द्रः
विकासकः, उहासक इत्यर्थ, तत्सम्बुद्ध, ते तुभ्यं नमः नमः पुनः
पुनस्त्वां नमामोत्यर्थ । वमन्ततिलकं वृत्तं, "ज्ञेयं वसन्ततिलक
तभजा जगौ गः' इति तल्लक्षणात् । रूपकालङ्कारः ॥ ७ ॥
 
कल्याणानामिति । कल्याणाना मङ्गलानां निधीयते अम्मि
मिति निधानम् आश्रय: मङ्गलमयमित्यर्थ, कलितुयें युगं
तत्र ये मला पापानि तेषा मधनं ध्वंसनं, कलोत्यनेन सत्यादि.
युगपशपाना किसुतेति अर्थापत्तिर्यज्यते । सन्ही जना साधव
इत्यर्थ, तैवा जोव्यतेऽनेनेति जीवनं रक्षामाधनं, सपदि भटिति
परं पदं कैवल्यमित्यर्थ, तस्य प्राप्तये लाभाय प्रस्थितथ्य
प्रवृत्तस्य मुमुचो. मोक्तुमिच्छो', संसारमिति शेष, जनस्य पायेयं
सम्बन्लं, "पाथेयं सम्बलं विदु" इति विश्व: । कविवराणा कत्रि
श्रेष्ठामा वाल्मीकिप्रभृतीना यानि वचासि वाक्यानि तेषाम्
एकम् अहितोयं विश्रामस्थानं विनोदनिलय अबलम्बन मिति
यावत्, पावयन्तीति पावनानि पापध्वंस साधनानि चान्द्रायणा-
दोनि हेर्पा पावन शोधनं, सर्वेषु एव कर्मसु रामापरनाथ-
विष्णुष्मरणस्य एतत्प्रयोजनकत्वस्य शास्त्रीयत्वादिति भाव:;
धर्म एव द्रुम, वृक्षः तस्य वोक्षं मूलकारणं यत् तत् रामनाम