This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
खें कैरवकोरकान् विदलयन्, यूनां मनः खेलयन्,
अम्भोजानि निमोलयन्, मृगट्टयां मानं समुन्मूलयन् ।
ज्योत्स्रा: कन्दलयन्, तमः कवलयन्, अम्भोधिमुहेलयन्.
कोकान् आकुलयन्, दिशो धवलयन्, इन्दुः समुज्जृम्भते ॥ ४० ॥ '
 
[६७]
 
लोकसञ्चारात् दर्शनविषयतां गते इति भावः तमसि अन्धकारे
शर्म शान्तिम् इते प्राप्ते तिरोहिते इति यावत् कोकलोके
चक्रवाकसमूहे "कोकञ्चक्रचक्रवाक" इत्यमरः, सशोके अन्योऽन्य
विरहादिति भावः, कन्दर्पे कामे अमन्दः प्रभूतः दर्पः यस्य
तादृशे अतिमवृद्धे इत्यर्थः, कन्दर्पेऽनल्पदर्पे इति पाठेपिस
एवार्थ:, सति शर्वरीसार्वभौम: निशानायः किरणान् वितरति
वर्षति । ननु भविष्ये रामणापेऽत्यन्तनिकटवर्त्तिनि कोजाना
मकस्मात् महोत्पातनिमित्तभूतं पार्खवर्त्तिनामपि प्रियजनाना-
मनवलोकनात्तयोक्तमिति बोध्यमे । स्रग्धरा वृत्तम् ॥ ३८ ॥
 
स्वैरमिति । इन्दुश्चन्द्रः कैरवकोरकान् कुमुदकलिका:
"कॅलिकाकोरकः पुमान् " इत्यमरः । स्वैरं शनैः शनैः विदलयन्
विकासयन्, यूनां तरुणानां मनः खैलयन् उल्हासवन् उद्दोपक-
त्वादिति भावः, खेदयन्निति पाठे विषादयन् विरहित्यादिति
भावः । अम्भोजानि पद्मानि निमोलयन् सोचयन् मृगां
कामिनीनां मानं समुन्मूलयन् समुन्मोचयन् निराकुर्वन्नित्यर्थः,
ज्योत्स्ना चन्द्रिका: ज्योत्स्रामिति पाठान्तरं कन्दलयन् समु
तेजयन्, तमः अन्धकार कवलयन् ग्रसन्, अम्भोधिं समुद्रम्
उडेलयन् वेलामतिक्रामयन्, कोकान् चक्रवांकान् श्राकुलयन.
व्यययन् अन्योऽन्यविरहजनकत्वादिति भावः, दिश: धवलयन्
राम्रोकुर्वन् समुज्जृम्भते समुदेति । गार्दूलविक्रीड़ितं वृत्तम् ॥४०॥