This page has not been fully proofread.

[६०]
 
महानाटकम् ।
 
रामस्तदादाय धनुः सहेलं घाणञ्च संयोज्य शदाचकर्म ।
 
भाति म माजान्मकरध्वजोऽयं गतिं प्रचिच्छेद च भार्गवस्य ॥२७॥
तापमापति ताड़कारौ-वाकारगुप्तापि विशालनेवा ।
 
सासूयमेदिष्ट विदेहकन्या, कन्यां किमन्यां परिणेष्यतीति ॥२८॥
भार्गवः । मानुनयम् ।
 
यः कार्त्तवीर्यस्य भुजा (न् सहस्रं चिच्छेद वीरो युधि जामदग्न्यः
स सायके रामकराधिरूढ़ ब्राह्मण्य एवं प्रणयी बभूव ॥२८॥
 
-
 
राम इति । रामः तत् गरुड़ध्वजस्य धनुः इति भावः, आ-
दाय बाणञ्च संयोज्य तत् महेलं सोलम् आचकर्ष आलष्टवान्,
वाणं गुणे योज्य यदाचकर्षेति पाठे बाणं शरं गुणे योज्य
सङ्गमय्य, योजेरति असंस्कृत पाठश्चिन्त्यः यदा आचकर्ष,
तदा साक्षात् स्वयं मकरध्वजः कामरूपः सन् भाति स्म
शुशुभे अतोष शोभनालतिरभूदिति भावः । भार्गवस्य परशु-
रामस्य गतिं स्वर्गपद्धतिमिति यावत्, प्रचिच्छेद च, तेन शरणेति
शेषः । उपजाति वृत्तम् ॥ २७॥
 
तच्चापमिति । ताड़कारौ रामे तत् चापं धनुः आकर्षति
सति विशालनेवा आयताची विदेहकन्या सोता आकार-
गुप्तापि संवृताकारापि, गुप्ताभिप्रायापोति भावः, अन्याम्
अपरां कन्यां परिणेष्यति (एकस्य धनुषः आकर्षनाई परि
पोता, पुनरेतत् धनुराकर्षणं दृश्यते तत् किमयमपरां कन्यां
पुनरुदच्यति ? इति सासूर्य सेय॑म् ऐचिष्ट ददर्श ॥२८॥
 
घ इति । यो वीरो जामदग्न्यः युधि युद्धे कार्त्तवोय्यस्य
भुजामहस्रं भुजानां सहस्रमित्यर्थः, भुजान सहस्तमिति पाठे
सहस्त्रं भुजान्, चिच्छेद, स सायके शरे रामस्य कराधिरूढ़े