This page has not been fully proofread.

[६०]
 
महानाटकम् ।
 
रामस्तदादाय धनुः सहेलं बापञ्च मंयोज्य तदाचकर्ण ।
 
भाति म साक्षान्मकरध्वजो. यं, गतिं प्रचिच्छेद च भार्गवस्य ॥२७॥
तच्चापमाकर्षंति ताड़कारोबाकारगुप्तापि विशालनेवा ।
साठ्य मैक्षिष्ट विदेहकन्या कन्यां किमन्यां परिणेतीति ॥२८॥
भार्गव । सानुनयम् ।
 
य कार्त्तवीर्यस्य भुजा न महस्रं चिच्छेद वोरो युधि जामदग्न्यः
स सायके रामकराधिरूट ब्राह्मण्य एव प्रणयी वभूव ॥२८॥
 
राम इति । राम. तत् गरुडध्वजस्य धनुः इति भाव., ग्रा-
दाय बाणञ्च सयोज्य तत् बहेल सलोलम् आचकर्ष आकृष्टवान्,
वाणं गुणे योग्य यदाचकर्णेति पाठे बाएं शरे गुणे योज्य
सङ्गमय्य, योजेप्रति अस्कृत पाठश्चिन्त्य,
यदा आचकर्ष,
नदा साक्षात् स्वयं मकरध्वजः कामरूप. सन् भाति स
शुशुभे, अतीव शोभनाचतिरभूदिति भावः । भार्गवस्य परश-
रामस्य गतिं स्वर्गपद्धतिमिति यावत्, प्रचिच्छेद च, तेन शरेषेति
शेष उपजाति वृत्तम् ॥२७॥