This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
यस्मादेकगुणं शरासनमिदं राजन्यकानां वलं,
युष्माकं हिजजन्मनां नवगुणं यज्ञोपवीतं बलम् ॥१८॥
 
परशरामः साभ्यसूयम् ।
येन स्वां विनिहत्य मातरमपि क्षत्रात्रमध्वासव-
स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्रिया मेदिनी ।
यदवाणवणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्चुला-
दद्याप्यस्थिकणाः पतन्ति म पुनः क्रुडो मुनिर्भार्गवः ॥२॥
 
[५५]
 
शिरसि स्थिताः । यस्मात् एकः गुण: मौर्वी यत्र ताहगम्
इदं शरासनं धनुः राजन्यकानां क्षत्रियाणां वलं, डिजजन्मनां
युमाकं नव गुणाः तन्तवः यत्र तथाभूतं यज्ञोपवीतं यज्ञसूत्रं
वतम् । (वयमेकगुणा यूयं नवगुणास्तत् कथं भवद्भिः सह
अस्माकं प्रतिम्पर्द्धितेति भावः॑ । शार्दूलविक्रीडितं वृत्तम् ॥१८॥
 
येनेति । येन स्वां निर्जा मातरमपि जननीमपि चवा.
णाम् अस्त्राण्येव रक्तान्येव मध्वासवाः मधुमदाः तेषां स्वादम्य
अभिज्ञ: म चासौ परश्वधयेति तेन । यद्दा स्वादस्य अभिज्ञः
परश्वधो यस्य तेन, येनेत्यम्य विशेषणम् ; विनिहत्य विनाश्य
पितुरादेशादिति भावः, मेदिनी पृथिवी निःक्षत्रिया चत्रिय-
शून्या विदधे सर्व एव चविया निहता इत्यर्थः, तथा यस्य
वाणानां शराणां व्रणाः क्षतानि तेषां वर्क पद्धतिः तेन हंस-
च्छलात् हंसानां निर्गमनव्याजात् क्रौञ्चम्य शिखरिणः पर्वतस्य
अस्थिकणाः कालखण्डा: अद्यापि पतन्ति, "भृगुपतियशो-
व यत क्रौञ्चरन्धम्" इति मेघदूते कालिदामः स मुनिर्भार्गवः
क्रुद्धः लामनिपात्य नाहं विनिवर्त्ते इति भावः । पुरा कार्त्ति-
केयस्य क्रौञ्चदारणस्य प्रतिस्पईया भार्गवः क्रौञ्चाद्रिं शरवर्येण