This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
[४८]
 
सहस्रबाहुस्त्वमई दिवाहु, स्त्वं चक्रवर्ती, मुनिनन्दनोऽहम् ।
त्वं सैन्ययुक्तोऽस्यहमेकवोरस्तयापि नौ पश्यतु तर्कसर्कः ॥८॥
उत्त्योत्कृत्य गर्भानपि शकलयतः क्षत्रसन्तानशेषात्
उहामानेकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।
 
धनुरैश्वरमिति भाव, तस्य खण्डनः भजन: यो दोर्दण्ड :
बाहुदण्ड तस्य चण्डिमा प्रचण्डत्वं तस्य आडम्बरेण प्रति-
रेकेण जगत्रयं त्रिभुवनम् आपूरितं, त्वयेति शेषः । सकलेति ।
अकलाः सर्वे वसुमतीमण्डलानाम् चाखण्डला इन्द्रा, राजान
इत्ययः, तेयां लक्ष्मीरव कुमुदिनी तस्या हरणे किरणमालो
सूर्य त मां न वेरिस ? न जानाति ? अकाण्डमदान्धप्रचण्ड-
टोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेषेति पाठे अकाण्डे मदा-
न्धाभ्या दर्पान्धाभ्याम् अतएव प्रचण्डाभ्या दोर्दण्डाभ्या
कोदण्डस्य धनुषः खण्डः खण्डनं तस्य चण्डिमा चण्डत्वं तस्य
आड़म्बरेणेत्यर्थः ।
 
महस्रबाहुरिति । त्वं सहस्र बाहवो यस्य सः, अहं हो
वाहू यस्य सः, त्व' चक्रवर्ती राजराज: अहं मुनिनन्दनः, स्वं
मैन्यैः युक्तः असि, अहम् एकः एकाकीत्यर्थः, वीरः । तथापि
इत्यं सबलदुर्बलयोरपोति भावः, नौ आवयोः तर्क वादम्पर्क:
सूर्य्यः पश्यतु अवलोकयतु । उपजाति वृत्तम् ॥ ८ ॥