This page has not been fully proofread.

[४५० ]
 
महानाटकम् ।
 
7
 
एवं दोर्दण्डदर्पं दिशि दिशि परमासयेदं गांपयित्वा
 
कृत्वा दुर्वृत्तशान्त्या त्रिभुवनमखिलं स्वस्वधम्मप्रवृत्तम् ।
भुक्ता राज्य सहस्राधिकमयुतमहो वत्सरान् पूर्णकाम:
साई पौरैः समस्तैरगमदतिकृती राघवः स्वोयलोकम् ॥ १४८॥
एप श्रीलहनुमता विरचितं श्रीमन्महानाटके
वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धरी विक्रमः ।
मिश्रश्री मधुसूदननं याविना सन्दर्भ्य सज्जोसते
'खर्गारोहणनामकोऽत्र नवमो यातोऽङ्ग एवेत्यसौ ॥ १४८
समाप्तोऽयं ग्रन्थः ।
 
L
 
F
 
आनीतानि व्योमयानानि विमानानि अनवरतम् अजस्रम् उपर्युः '
उपजम्मुः, अहो आवश्यम् । स्रधरा वृत्तम् ॥ १४७ ॥
 
एवमिति । अतिकृती अतिकुशल: राघव: दिशि दिशि
एवम् त्वं परमार्थदं दोर्दण्डदर्प, भुजवलगौरवं गाययित्वा
कोर्त्तयित्वा विख्यायेत्यर्थः, दुर्वृत्तानां दुराचाराणां दशानना-
दोनां शान्त्या संहारेण अखिलं समग्र त्रिभुवनं स्वस्वधर्म प्रवृत्तं
रतं कृत्वा सहस्राधिकमयुतं वत्सरान् एकादशमहतवर्षाणि
इत्यर्थः, राज्यं मुक्ता पूर्णकाम: मिदमनोरथः समस्तैः पोरैः
पुरवासिभिः साईं स्वीयतोकं विलोकं, वैकुण्ठमित्यर्थः, अग-
मत् जगाम । स्रग्धरा वृत्तम् ॥ १४८ ॥
 
एष इति । स्वर्गारोहणं नाम यस्य सः ॥२४८॥
इति वि, ए, उपाधिधारिणा पण्डित्तकुलपतिना,
श्रीजीवानन्दविद्यासागरभट्टाचार्येण विरचिता महानाटक-
व्याख्या समाHI ।
 
J
 
1