This page has not been fully proofread.

[४४८]
 
महानाटकम् ।
 
ततश्च लक्ष्मणे स्वर्गे गते रामभरतयोरुक्तिमत्युक्तो ।
भरत ! कलय राज्यं, देव! मैवं, प्रवोरे
तव तनययुगेऽस्मिन् युज्यते राज्यलक्ष्मीः ।
अयमहमनुयास्याम्येव शत्रुघ्घ्रयुक्तः
तव चरणसरोजं नाथ देव ! प्रसोद ॥ १४४ ॥
इति भरतवचोभिर्विस्मितोतफलचेताः
कुशलवकरपद्मे राज्यलक्ष्मीं निधाय ।
सहगमनममुत्कर्याचितो लोकवृन्दैः
अतिमकरुणचित्तस्तांस्तथैवानुमेने ॥ १४५ ॥
 
अङ्गं शरीर विमुच्य विहाय सद्यः सपदि पूज्यमानः, सुरिति
शेषः स्वर्ग लेभे प्राप । हि तथाहि सत्कमा सञ्चरितः जनः
श्रेयसामेव सद्हतीनामेव भागो, भवतीति शेषः । सामान्येन
विशेषसमर्थन रूपोऽर्थान्तरन्यासः । इन्द्रवव्वा वृत्तम् ॥ १४२ ।
 
भरतेति । हे भरत ! राज्यं कलय गृहाण । इति रामोक्तिः ।
हे देव ! मी एवम् एवं मा वद इत्यर्थः, प्रवी, विनइति वा
पाठः, अस्मिन् तव तनययुगे पुत्रयुगले राज्यलक्ष्मो : युज्यते
सङ्गच्छते, ज्येष्ठवंशानुसारिणो हि राज्यलक्ष्मोरिति भावः ।
हे नाथ ! अयम् अहं शत्रुघ्न्नेन युक्तः सहितः तव चरण-
सरोजं पादपद्मम् अनुयास्याम्येव अनुगमिष्याम्येव । हे देव !
प्रसोद प्रसन्नो भव । मालिनी वृत्तम् ॥ १४४ ॥
 
इतीति । इसोल्यं भरतस्य वचोभिः वचनैः विस्मितम्
उत्फुल्लं चेतः चित्तं यस्य तथोक्तः स रामः कुशलषयोः करपद्मे,
करयुग्मे इति वा पाठः, राज्यलक्ष्मों निधाय समर्प्य सह-
गैमने समुत्काः समुत्सका:
समुत्सकाः तैः लोकवृन्दैः पुरवासिसम है: