This page has not been fully proofread.

[४४२]
 
महानाटकम् ।
 
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
 
सा दुर्वारं कथमपि परित्यागदुःखं विपेहे ॥ १३३॥
अथ ब्राह्मणपुत्तस्य मृतस्य जोवनाय धूमं पिबन्तं मुनिरूपं
शूद्रं दृष्ट्वा रामवाक्यम् ।
 
रे हस्त । दक्षिण । मृतस्य शिशोर्डिजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य गावमसि दुर्भरगर्भखिन-
सीताप्रवासनपटो, करुणा कुतस्ते १ ॥ १३४ ॥
अघ सुवर्णसीताप्रतिकृति कृत्वाऽश्वमेधं कुर्वाणे रामभद्रे
पौरजनवाक्यम् ।
 

 
"सस्त्रीको धम्ममाचरेत्" इति शास्त्रादिति भावं, तेन श्रवण
विषयप्रापिणा अतिगोचरेण भर्त्तु: वृत्तान्तेन हेतुना सा सीत
दुर्वारमपि दुसहमपि परित्यागदुख कथमपि विषेहे सोदू
वती । मन्दाक्रान्सा वृत्तम् ॥ १३३ ॥
 
1
 
रे हस्त इति । रे दक्षिणहस्त । मृतस्य द्विजस्य शियो
अर्भकस्य जोवातवे जीवनौषधाय, "जीवातुर्जीवनौषधम्" इत्य
मर शूद्रसुनौ कृपाणम् अतिं विसृज निचिप । ननु कथमह
मोहनियमाचरामोत्यत रामस्त-दुर्भरण दुर्धरे
आह,
गर्भेगा खिया लान्ता या सोता तस्या प्रवासने वनप्रेषगणे पटु
समर्थ, तत्पर इत्यर्थ तस्य रामस्य गावम् अङ्गम् असि, ते तय
करुणा कुत १ नैव करुण अस्तीत्यर्थ । अव उत्तराईस्य पूर्वाई-
हेतुकत्वात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, "हेतोर्वाक्य-
पदार्थले काव्यलिङ्गमुदाहृतम्" इति लक्षात् । वसन्ततिलक'
 
व्रत्तम ॥ १३ ॥