This page has not been fully proofread.

[४३०]
 
महानाटकम् ।
 
अदुष्टाया सोताया जनानां वाक्यम् ।
 
भग्न यहनुरोखरस्य शिशुना यज्जामदग्न्यो जित
व्यक्ता यञ्च गुरोगिरा वसुमती बद्धो यदम्भोनिधि ।
एकैक दशकन्धरचयकृतो रामस्य कि मते ?
दै० निर्णय येन सोऽपि सहसा सोता वियुक्तोक्कृत ग्र१११ ॥
अथ श्रीराम प्रति तेषा स्तुतिवचनम् ।
विजेतव्या ला चरणतरणोयो जलनिधि
 
विपक्ष पौलस्त्यो रणभुवि सहायाश्च कपय ।
तथाप्येको राम सकलमजयद्राचम कुल
क्रियासिडि सत्वे भवति महतां नोपकरणे ॥ ११२ ॥
 
भग्नमिति । शिशुना रामेय ईश्वरस्य धनु भग्नम इति
यत् जामदग्न्य भार्गव जित इति यत् गुरो पितु गिरा
वचमा चाइयेति यावत् वसुमती पृथिवी राज्यमित्यर्थ व्यक्ता
इति यत् थम्भोनिधि समुद्र बद्ध इति यत् अत्तत् एकेक
दशकन्वरक्षयकृत रावणसहारियो रामस्य वि वर्ण्यते ? कि
कोयते ? किन्तु दैव विधि निर्णय निश्चिनुहि येन सोऽपि
राम सहमा सोतावियुक्तोकृत सोताविरहदुङ प्रापित
इत्यर्थ न कोऽपि दैवम अतिवर्त्तितुं शक्नोतीति भाव ।
शार्दूलविक्रीडित वृत्तम । १११ ॥
 
विजेतव्येति । लङ्का सुरासुरे अजेयेति भाव विजेतव्या
जयनीया जलनिधि मुमुद्र चरणाभ्या तरणीय लङ्घनीय
पौलस्त्य रावण विपद शत्रु रणभुवि सग्रामचेत्रे कपय
वानरा सहाया, तथापि इत्य जयप्रातिकूल्येऽपि एक राम
सकल समय
fata तथाहि महता
 
तिसकलस