This page has not been fully proofread.

i
 
[४२८]
 
नवमोऽड्डः ।
 
पादाङ्गुष्ठनखाग्रदत्तनयना नोवोविनिन्यासत:
स्तोकालच्यमुखी कृशानुवलयाचा निर्गता जानको ॥१०८ ॥
 
अदग्धायां सोतायां दशरयसमेतानां देवानां वाक्यम् ।
विरम विरम राम! त्वत्कलवं पवित्र
वयमधिगतवन्तः साक्षिणी लोकपालाः ।
किमपरमनलेऽस्मिन् हेमवनीव शुद्धा
कुलविपुलविभूषां नानको ते तनोतु ॥ ११० ॥
 
अनसूयया अविपना विरचितां गुम्फित्वा दत्तामिति यावत्
अम्नानाम् अमलिनां, नित्योज्ज्वलामिति यावत् स्रजं मालिकां
मौलौ धम्भिल्ले, "मौलि: किरोटधमिलो" इत्यमरः, विनती
दधाना पादाङ्ग छ्योर्नखायेषु दत्तनयना दत्तदृष्टिः, न त्वन्यतो
दत्तदृष्टिरिति भावः, नोवो कटिवमनग्रन्थिः तस्या विनिन्यासतः
विशेषेण वन्धनप्रयत्नत इत्यर्थः, प्रस्खलनभयादिति भावः, हेतोः
स्त्रोकमोयत् चालच्यं मुखं यस्याः तथाभूता सती द्राक् मपद,
झटितीत्यर्थः, "द्राग् झटित्यञ्चमाझाय" इत्यमरः, कृशानुवलयात्
अग्निमण्डलात्, अग्निरागेरित्यर्थः, निर्गता उत्तस्थावित्यर्थः ।
शार्दूलविक्रीड़ित वृत्तम् ॥ १०८ ॥
 
विरमेति । हे राम ! विरम विरम, ज्ञानकों प्रति
अमतोत्वसंगयादिति भावः, तव कलवं पत्नो जानकी पवित्रं
विशुद्धम् । लोकपाला: साचियः सर्वान्तर्यामिनः वयम् अधि
गतवन्तः ज्ञातवन्तः । अपरम् अधिकं किं, वक्तव्यमिति शेष:,
जानको अस्मिन् अनले अग्नौ शदा सती हेमवलोव हेमलतेव
ते तव कुलस्य वंशस्य विपुलां महतीं विभूषाम् अलङ्गतिं,
शोभामित्यर्थः, तनोतु विस्तारयतु । मालिनो वृत्तम् ॥ ११० ॥