This page has not been fully proofread.

[४१०]
 
महानाटकम् ।
 
अयमपि दशकण्ठः कुण्ठिताम्भोदशोभः ।
 
परिकलयति रामं भ्रान्तकोदण्डदण्डम् ॥ ७५ ॥
राव । रे रे वोरमवीराः । कुरुत रणमितः किं पलायध्वमेते ?
सन्नदोभूय शस्तैर्भजत रिपुगणान् को भयस्थावकाशः १।
हत्वाऽद्याहं हनूमद्रणविजयिबलं जाम्बवन्तञ्च नौलं
तान् वा प्रौढ़ागदादीन् करकलितधनु राममन्वेषयामि ॥
 
॥ ७६ ॥
 
राम । भो लङ्केश्वर ! दीयतां जनकजा, रामः स्वयं याचते,
 
कोऽयं ते मतिविभ्रम ? स्मर नयं, नाद्यापि किञ्चित् कृतम् ।
साम्यादिति भाव, रणभुव समरभूमिम् भवतोर्ग: युडाये
प्रवृत्त इत्यर्थ । कुण्ठिता महोविता, निर्जितत्यर्थ, थम्भोदस्य
मेघस्य शोभा येन तयोक्त, मेघोपम इत्यर्थः, अयं दशकण्ठोऽपि
रावणोऽपि भ्रान्त बलयित: कोदण्डदण्ड : धनुर्यष्टिर्यस्य त
रामं परिकलयति अभिगच्छति । उपमालहार । मालिनी
वृत्तम् ॥ ७५ ॥
 

 
रे रे इति। रे रे वीरेषु प्रवीरा: प्रकष्टवोराः ! रणं कुरुत
युध्यध्वमित्यर्थः, किं कथम् इत. रणक्षेत्रात् पलायध्वं पलायनं
कुरुत ? एते यूय सबहीभूय बहपरिकरा भूला शस्तैः रिपु
गणान् शत्रुनिवहान् भजत युजीत, भयस्य अवकाशः भवसर,
कः १ नास्ति भयमित्यर्थः, अद्य अहं हनुमतः रणविजयि बलं
जाम्बवन्तं नीलच तान् प्रौढा बलोकटा: ये भङ्गदादय, तान्
या हत्वा निहत्य करें: इस्तै, कलितं गृहीत धनु. येन तथा
भूतः सन् रामम् धन्वेषयामि अनुमन्दधामि ; यहा करकलित-
धनूराममित्येकं पदं करेग्य कलितं गृहोतं धनुर्येन स चासो
रामयेति विग्रहः तम् अन्वेपयामि । स्रग्धरा वृत्तम् ॥ ७६ ॥