This page has not been fully proofread.

[४०८]
 
महानाटकम् ।
 
औषधानयन प्रस्तावे नलादीनां वाक्यम् ।
 
नलस्विरात्रात पुनदेति गत्वा तवाह मैन्दद्दिविदो त्रिरात्रम् ।
सुग्रोवनीली पुनरेकरात बोराङ्गदो यामचतुष्टयेन ॥ ७२ ॥
अथ महौषधिमानेतुं गते हनुमति रामवाक्यम् ।
मातर्निशोथिनि ! चिरं भव दोर्घयामा
जातान्धकार । वपुषा गगनं पिधेहि ।
नाथ प्रभाकर ! रुचां न कुरु प्रचार
गावन दृष्टिपथमेति समोरसूतुः ॥ ७३ ॥
 
नल इति । नलः
नलः विरात्रात् तिसृभिः रात्रिभिरित्यर्थः,
वाहादिति भावः, गत्वा ओषधिपर्वतमिति भावः, पुनरेति
ओषधिं ग्रहोवेति भाव: मैन्दश्य डिविदश्च दिनरात दिनदय
मध्ये इति यावत्, सुग्रोवश्च नीलश्च पुनः किन्तु एकरात्रम्
एकेन इत्यथः चोरयासो पति वोराङ्गद यामचतुष्टयेन
एकेन दिनेन एकया रावरा वेत्यर्थः, (गत्वा पुनरेति इति
तेषु मध्ये आह इति सर्वसम्बन्धः । उपजाति वृत्तम् ॥ ७२ ॥
 
1
 
मातरिति । हे मात: निशीथिनि । रजनि ! चिरं व्याप्य
दीर्घयामा दुरतिवाह्यमहरा भव । हे तात अन्धकार ! वपुषा
प्रशरोरेण गगनम् आकाशं पिधेहि आच्छादय हे नाथ
प्रभाकर ! सूर्य ! त्वं रुचाम् श्रालोकानां प्रचारं न कुरु,
ममोरस्तु: हनूमान् यावत् दृष्टिपथं, ममेति शेषः, न एति
न भागच्छति, (हनुमदागमनपर्यन्तं भवन्तः कृपया स्वस्व.
व्यापारेषु शैथित्यं कुर्वन्तु, नो चेत् सूर्योदयमात्र एव लक्ष्मणस्य
प्रागविगमो भविष्यतीति भावः । वसन्ततिलकं वृत्तम् ॥७३॥