This page has not been fully proofread.

नवमोऽद्धः ।
 
यास्यन्ति वानरचमूपतयः स्वदेशान्
 
हा इन्त ! नास्ति गतिरेव विभीषणस्य ॥ ६८
 
अयि राघवाविति पुरा मधुरं
 
परिपोय पौरमुनिलोकवचः ।
 
अयि राघवेति गरलप्रतिम
 
कथमद्य रामहतक. पिवति ? ॥ ७० ॥
महाशय । मया साईं त्वमरस्यमुपागतः ।
न गच्छामि त्वया साकं नाकमप्यहमतपः ? ॥ ७१ ॥
 
[४०७]
 
प्राध्येत्यर्थ ) दशकण्ठस्य गेहं यास्यति गमिष्यति, वानरचमू-
पतयः क पिसेनाध्यचा: स्वदेशान् यास्यन्ति गमिष्यन्ति, हा हन्त
खेदे, विभीषणस्यैव गतिः उपायो नास्ति । वसन्ततिलकं
वृत्तम् ॥ ६८ ॥
 
अयोति । अयोति कोमलामन्त्रणे, अयि राववी ! गम
लक्ष्मयो । इति मधुरं पोराणां नगरवासिना मुनीनां लोकाना
जनाना वच: वाक्य पुरा पूर्व परिपोय प्रास्त्राद्य अयि राघव !
इति गरलपतिमं विपोष, वच इति शेष रामहतक, हत-
भाग्यो राम' कथं पित्रति ? किन प्रकारेण आखादयति १ लक्ष्मण-
रहितः रामः कथ जीविष्यति ? इति भावः । प्रमिताचरा वृत्तुं,
"प्रमिताचरा मजमसै. कविता" इति नक्षणात् ॥ ७० ॥
 
महागयेति । हे महाशय ! महानुभाव लक्ष्मण ! त्वं
मया माईम् अरण्यम् उपागतः उपनोतः । अहम् अवः
निर्लज्जः त्वया साकं सह नाकमपि स्वर्गमपि, (कुस्यानं दूरे
तिष्ठत्विति भावः, न गच्छामि सुनृशमोऽकृतज्ञोऽहमिति भावः ।
 
अनुष्टुप् वृत्तम् ॥ ७१ ॥