This page has not been fully proofread.

नवमोऽडः ।
 
जातानृताप्यहह ! याssलपिता च वै मे
 

 
त्वं मैग्नचुचुककुचा सधवा भविती ॥ ५२ ॥
अमरपतिजिता तौ नागपाशेन वडी
अथ गरुड़निपातोन्मुक्ततत्पाशवन्धी ।
विदधतुरतियुद्धं, तव रामानुजन्मा
गितमरहतजीव मेवनादं चकार ॥ ५३ ॥
जनमुखरणवार्त्ता ते राक्षसेन्द्र !
युवते
तव तनयसुरेशः पातितो लक्ष्मणेन ।
 
[३८७]
 
सम्नम-आभोगान्तर्लोनं चूचुकं कुचाग्रं ययोः तादृशो "चूचुकन्तु
कुचाग्रं स्यात्" इत्यमरः, कुची यस्याः तथाभूता, अतः
मधवा भविवो स्थान कदाचिद वैधव्यं लभासे इति भावु,
इति मे मम या आलपिता उक्ता वाणो अनृतापि मिथ्यैव च बै
जाता किम् १ । वाचेति पाठे वाचा वागित्यर्थः । श्रावन्त
स्त्रीलिङ्गः । उताञ्च सामुद्रिके–"आयोगमग्नशिरसौ यस्याः
स्तः मततं कुचौ । सा नारो सधवा नित्यं न कदाचित् तट-
मिया ॥" इति । वसन्ततिलकं वृत्तम् ॥ ५२ ॥
 

 
अमरेति । अमरपतिजिता इन्द्रजिता नागपाशेन बड़ौ
तो गमलक्ष्मण श्रथ - कियत्कालानन्तरं गरुड़निपातेन वैन-
तैयागमनेन उन्मुक्त: परित्यक्तः स पाशवन्धः याभ्यां तथोक्तौ
मन्तो अतियुद्धं महारणं विदधतुः चक्रतुः । तव सहारणे
रामानुजन्मा लक्ष्मण: मेघनादं शितेन सुतोचणेन शरेष हृतः
जीवः यस्य तं चकार निजघानेत्यर्थः । मालिनो वृत्तम् ॥ ५३ ॥
 
जनेति । हे राक्षसेन्द्र । रावण । लक्ष्मणेन तव तनय
सुरेशः पुवेन्द्रः, पुवयेष्ठ इत्यर्थः, पातितः निहतः, इति जन-
म – ३४