This page has not been fully proofread.

[३८४ ।
 
महानाटकम् ।
 
प्रविश्य मन्दोदरी ।
 
लङ्कानाथ ! तवानुजो युधि हतो रामेण, रत्नाकरें
संलय झवगैस्तथा परिता पूरि तेऽवस्थिताः ।
रामेऽपि स्मृतिगोचरे सति यदा तवैव रोषान्विता
सोता सम्प्रति सम्मता किमु भवेत् ? तूष्णीं तदैष स्थितः ॥ ४८ ॥
रावणः । अहह ! हतविधे! मरुञ्चन्द्रेत्यादिकं पठति । ततः
सत्वरमा खण्ड लखण्डनदृष्टप्रचण्डर मेघनादं समराय वृणोति
स्म । (ख) मेघनादोऽपि समरावतरणं नाट्यति । वानराः
पलायन्ते ।
 
मेघनादः ।
 
क्षुद्राः सन्त्रासमेते विजहित हरयः । नुसशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।
 
लानाथेति । हे लानाथ ! तब अनुजः कुम्भकरा
रामेण युधि युद्धे हतः, तथा लवगै: रत्नाकरं समुद्रं संलगा
पूर्लङ्का परिव़ता आच्छादिता, ते लवगा: हारि अवस्थिताः ।
रामे स्मृतिगोचर स्मृते सति यदा तत्रैव तदवस्थायामेव सोता
रोषान्विता कुपिता, वयि इति शेषः, सम्मति इदानीं सम्मता
 
अनुरक्षा भवेत् किमु ? नैव अनुरता भवेदित्यर्थः । मदा
तस्मिन् काले, मन्दोदर्या एवमुक्ते इत्यर्थः एषः रावण: तूण
स्थितः न किञ्चिदुवाचेत्यर्थः । मार्दूलविक्रीड़ितं वत्तम् ॥ ४८ ॥
 
( ख ) चाखण्डलेति । आखण्डलस्य इन्द्रस्य खण्डनेन परा-
जयेन हृष्टं माचण्यम् चौडत्यं यस्य तम् इन्द्रजितमित्यर्थ.,
वृणोति स्म न्ययुड्लेत्यर्थः ।