This page has not been fully proofread.

[३८]
 
महानाटकम् ।
 
रामो विधिं परिसमाम्य सहानुजैस्तु,
 
तेभ्यो ददौ बहुवसूनि तिलांच गाय ॥ ५६ ॥
 
रघुजनकमहोन्द्रयोस्तदानीम्,
अभवदपत्य विवाहमङ्गलश्रोः ।
त्रिभुवनजनता ननर्त्त यत्र,
 
प्रमदमवाप्य मनोरथव्यतीतम् ॥ ५७ ॥
सौता श्रीरघुनन्दनोऽय भरतः कौशवजीं माण्डवों,
सौमितिः शतपवशव
वदना सोतानुजामूर्मिलाम् ।
 
वैवाहिकमिति । -रामलु मनुजे. सह कुशिकनन्दन.
विश्वामित्र: जामदग्न्यः परशरामः, अव जामदग्नेति पाठ-
चिन्त्यः, तेन सह अयोध्याप्रयाणकाले सङ्ग तेर्वक्ष्यमाणत्वादिति,
वामदेवेति पाठोयुक्त इति सुधोभिर्विभाव्यम् । वाल्मोकि
गौतम गोतमपुत्रः मतानन्दः तथा वशिष्ठ एव पुरोहितः
भायो मुख्यः येषां तैः मुनिभिरिति शेष, वैवाहिकं विधि
पाणिग्रहसस्कार परिसमान्य निर्वाध तेभ्यः कुशिकनन्दना-
दिभ्य: वहनि वसूनि धनानि तिलांच गाय ददौ प्रदत्तवान् ।
रामो विधिं सह समाप्य मलक्ष्मणस्तैरानन्दयन् जनकजां स्वपुरं
अगामेति पाठान्तरम् । वसन्ततिलकं वृत्तम् ॥५६॥
 
रघिति ।
 
तदानी तस्मिन् काले रघुजनकमहोन्द्रयोः
राघवज्ञनकयो:, दशरथस्य जनकस्य चेत्यर्थ, अपत्यानां पुवायां
प्रवीपाश्च विवाह एवं मङ्गलं माङ्गलिकव्यापारः तस्य श्रीः
शोभा अभवत् । यव थिया विभुषनजनता विनोकोलोक-

वर्ग: मनोरथय्यतीतम् अभिलाषातोतं प्रमदम् आनन्दम्
अवाप्य प्राप्य नव नृत्वं धकार । पुष्पिताग्रा वृत्तम् । ५७ ॥
तमत । श्रीरघुनन्दनः रामः सीताम् प्रधानन्तरं